पृष्ठम्:मृच्छकटिकम्.pdf/३१

पुटमेतत् सुपुष्टितम्
२३
प्रथमोऽङ्कः

 विटः—न भेतव्यं न भेतव्यम्।

 वसन्तसेना—माहविए माहविए!। [माधविके माधविके!।]

 विटः—(सहासम्) मूर्ख! परिजनोऽन्विष्यते।

 शकार—भावे भावे। इत्थिअं अण्णेशदि। [भाव भाव! स्त्रियमन्वेषयति।]

 विटः—अथ किम्।

 शकारः—इश्यिआणं शदं मालेमि। शूले हगे। [स्त्रीणां शतं मारयामि। शूरोऽहम्।।

 वसन्तुसेना—(शून्यमवलोक्य) हद्धी हद्धी, कधं परिअणो वि परिब्भट्टो। एत्थ मए अप्पा शअं ज्जेव्व रक्खिदव्वो। [हा धिक् हा धिक्, कथं परिजनोऽपि परिभ्रष्टः। अत्र मयात्मा स्वयमेव रक्षितव्यः।]

 विटः—अन्विष्यतामन्विष्यताम्।

 शकारः—वशंतशेणिए। विलव विलव पलहुदिअं वा पल्लवअं वा शव्वं वा वशंतमाशं। मए अहिशालिअंतीं तुमं के पलित्ताइश्शदि?।

किं भीमशेणे जमदग्गिपुत्ते कुंतीशुदे वा दशकंधले वा।
एशे हगे गेण्हिय केशहश्ते दुश्शाशणश्शाणुकिदिं कलेमि॥२९॥


हरन्ती। 'सवेंटणं सवेष्टनमित्यर्थः' इत्येकै॥२८॥ पल्लवकः परभृतिका च वसन्तसेनायाः परिचारकः परिचारिका च। माधविका अपरा परिचारिका॥ भावे भावे इति संबोधनम्। मणुश्शे मनुष्यः॥ स्त्रीनामश्रवणेन सगर्वमाह—भाव। स्त्रियमन्वेषयति॥ स्त्रीणां शतं मारयामि। शूले शूरः। हगे अहम्॥ हद्धी हद्धी हा धिकू हा धिक्। विलप। किमेकदेशविलापेन सकलं वसन्तमासं वा। अत्र पक्षे एक 'वा'शब्दः शकारवचनतया व्यर्थं एवं प्रयुक्तः। अनेकार्थत्वान्निपातानामवधारणे वा। सर्वमेद वसन्तमासमित्यर्थः। को तुमं त्वां परित्रायते॥ किं भीमशेणे इत्यादि। इन्द्रवज्राश्लोकः। किं भीमसेनो