विटः—(स्वगतम्) अये, कथं शान्तमित्यभिहिते श्रान्त इत्यगच्छति मूर्खः॥ (प्रकाशम्) वसन्तसेने! वेशवासविरुद्धमभिहितं भवत्या। पश्य,—
तरुणजनसहायश्चिन्त्यतां वेशवासो |
अपि च,—
वाप्यां स्नाति विचक्षणो द्विजवरो मूर्खोऽपि वर्णाधमः |
वसन्तसेना— गुणो खु अणुराअस्स कारणं, ण उण बलक्कारो । [ गुणः खल्वनुरागस्य कारणम्, न पुनर्बलात्कारः ।]
शकारः— भावे भावे ! एशा गब्भदाशी कामदेवाअदणुज्जाणादॊ पहुदि ताह दलिद्दचालुहत्ताह अणुलत्ता ण मं कामेदि । वामदो तश्श धलं । जधा तव मम अ हश्तादो ण एशा पलिब्भंशदि तध। कलेदु भावे । [ भाव भाव ! एषा गर्भदासी कामदेवायतनोद्यानात्प्रभृति
शीर्षॆणात्मीयाभ्यां पादाभ्यां शपे । यदग्रे वक्ष्यमाणं तत्सत्यमित्यर्थः । तवैव पृष्ठानु- पृष्ठिकया। अहिंडन्ते उद्भ्राम्यन् । श्रान्तः क्लान्तोऽस्मि संवृत्तः ॥ तरुणेत्यादि । वेशो वेश्याजनवासस्थानम् ॥ ३१॥ वाप्यामित्यादि । नाम्यति नमयति । नाम्यतीति कण्वादिपाठात् 'नामं करोति॑ इत्यर्थे यक्यकारलोपेच रूपम् । यथा मगधशब्दे मगध्यतीति भवति । नामं करोतीत्यर्थे णिचि संज्ञा पूर्वको विधिरनित्यः' इति गुणमकृत्वा यणादेशे नाम्यतीति रूपम् इत्येके । “ण्यन्तात्संपदादिपाठमभ्युपेत्य क्विपि क्यचि रूपम्' इत्यपरे ॥ ३२ ॥