उन्मीलितापि दृष्टिर्निमीलितेवान्धकारेण॥३३॥ |
अपि च,—
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः। |
शकारः—भावे भावे! अण्णेशामि वशंतशेणिअं। [भाव भाव! अन्विष्यामि वसन्तसेनिकाम्।]
विटः—काणेलीमातः। अस्ति किंचिच्चिह्नं यदुपलक्षयसि।
शकारः—भावे भावे! किं विअ? [भाव भाव! किमिव?।]
विटः—भूषणशब्दं सौरभ्यानुविद्धं माल्यगन्धं वा।
शकारः—शुणामि मल्लगंधं, अंधआलपुलिदाए उण णाशिआए ण शुव्वत्तं पेक्खामि भूशणशद्दं। [शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्।]
विटः—(जनान्तिकम्) वसन्तसेने।
कामं प्रदोषतिमिरेण न दृश्यसे त्वं |
श्रुतं वसन्तसेने!।।
वसन्तसेना—(स्वगतम्) सुदं गहिदं च। (नाट्येन नूपुराण्युत्सार्य माल्यानि चापनीय किंचित्परिक्रम्य हस्तेन परामृश्य) अम्मो, भित्ति-
महती॥३३॥ लिम्पतीत्यादि।॥३४॥ भाव! अन्विष्यामि वसन्तसेनाम्।। चिह्नं भूषणशब्दादि। उपलक्षणं माल्यगन्धादि। ‘अस्ति किंचिच्चिह्नमुपलक्षयसि’ इति पाठान्तरार्थों व्यक्त एव॥ किं विअ। कीदृशमिवेत्यर्थः॥ शृणोमि माल्यगन्धम्, अन्धकारपूरितया पुनर्नासिकया न सुव्यक्तं पश्यामि भूषणशब्दम्। ‘शुणामि मल्लगंधं’ इत्यादिना लोकविरुद्धोक्तिः॥ काममित्यादि॥३५॥ श्रुतमवधारितम्॥ गृहीतमस्य तात्पर्यमप्याकलितम्। अये मतिः। भित्तिपराम-