प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् परिष्कृतम् अस्ति
२९
प्रथमोऽङ्कः

परामरिससूचिदं पक्खदुआरअं खु एदं। जाणामि अ संजोएण गेहस्स संवुदं पक्खदुआरअं। [श्रुतं गृहीतं च। अहो, भित्तिपरामर्शसूचितं पक्षद्वारकं खल्वेतत्। जानामि च संयोगेन गेहस्य संवृत्तं पक्षद्वारकम्।]

 चारुदत्तः–वयस्य! समाप्तजपोऽस्मि। तत्सांप्रतं गच्छ। मातृभ्यो बलिमुपहर॥

 विदूषकः–भो, ण गमिस्सं। [भोः, न गमिष्यामि।]

 चारुदत्तः–धिक्कष्टम्,—

दारिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते
सुस्निग्धा विमुखीभवन्ति सुहृदः स्फारीभवन्त्यापदः।
सत्वं ह्रासमुपैति शीलशशिनः कान्तिः परिम्लायते
पापं कर्म च यत्परैरपि कृतं तत्तस्य संभाव्यते॥३६॥

अपि च,—

सङ्गं नैव हि कश्चिदस्य कुरुते संभाषते नादरात्
संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते।
दुरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम्॥३७॥

अपि च,—

दारिद्य! शोचामि भवन्तमेवमस्मच्छरीरे सुहृदित्युषित्वा।
विपन्नदेहे मयि मन्दभाग्ये ममेति चिन्ता क्व गमिष्यसि त्वम्॥३८॥


र्शसूचितं पक्षद्वारं खल्वेतत्। जानामि संयोगेन स्पर्शनेन्द्रियानुभवेन गृहस्य संवृतं पक्षद्वारकम्॥ दरियादित्यादि। बान्धवजनो वाक्ये न संतिष्ठते। वचनं न करोतीत्यर्थः। प्रतापाभावात्। स्फारीभवन्त्येकीभवन्ति। तस्य संभाव्यते चौर्यादिकमिदमस्य मासीदिदानीं कथमित्यादि॥३३॥ सङ्गमित्यादि। अल्पच्छदो वस्त्रविहीनः॥३७॥ दारिद्येति। भवन्तमेवं शोचामि। विनष्टदेहे मयि क्व यास्यसि?। अस्मत्सदृक्सार्वदिकः सुहृत्कोऽपि नास्तीत्यर्थः। अर्थपरत्वा-