पृष्ठम्:मृच्छकटिकम्.pdf/४२

पुटमेतत् सुपुष्टितम्
३४
मृच्छकटिके

अम्हारिसजणभाअधेअकुडिलेण दंडकट्ठेण दुट्ठस्य विअ सुक्खाणवेणुअस्स मत्थअं दे पहारेहिं कुट्टइस्सं । [मा तावत् । भोः, स्वके गेहे कुक्कुरोऽपि तावच्चण्डो भवति, किं पुनरहं ब्राह्मणः । तदेतेनास्मादृशजनभागधेयकुटिलेन दण्डकाष्ठॆन दुष्टस्येव शुष्कवेणुकस्य मस्तकं ते प्रहारैः कुट्टयिष्यामि। }

 विटः— महाब्राह्मण ! मर्षय मर्षय ।।

 विदूषकः— ( विटं दृष्ट्वा ) ण एत्थ एसो अवरज्झदि । ( शकारं दृष्ट्वा ) एसो खु एत्थ अवरज्झदि । अरे रे राअसालअ संठाणअ दुज्जण दुम्मणुस्स ! जुत्तं ण्णेदं । जई वि णाम तत्तभवं अज्ज चारु- दत्तो दलिद्दो संवुत्तो, ता किं तस्स गुणेहिं ण अलंकिदा उज्जइणी ?। जेण तस्स गेहं पविसिअ परिअणस्स ईरिसो उवमद्दो करीअदि ।

मा दुग्गदो त्ति परिहवो णत्थि कदंतस्स दुग्गदो णाम ।
चारित्तेण विहीणो अङ्को वि अ दुग्गदो होइ ॥ ४३ ॥

[नात्र एषोऽपराध्यति । एष खल्वत्रापराध्यति । अरे रे राजश्यालक संस्थानक दुर्जन दुर्मनुष्य ! युक्तमं नेदम् । यद्यपि नाम तत्रभवानार्यचारुदत्तो दरिद्रः संवृत्तः । तत्किं तस्य गुणैर्नालंकृतोज्जयिनी ? । येन तस्य गृहं प्रविश्य परिजनस्येदृश उपमर्दः क्रियते ।

मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दुर्गतो नाम ।
चारित्र्येण विहीन आढ्यॊऽपि च दुर्गतो भवति ॥]


महादुष्टस्यानिग्रहॆऽपि ममापराधो भवत्येवेत्यर्थः । पाठान्तरे चोडे कर्णनासिकाशून्यः । दुट्ठस्स विअ दुष्टस्येव । आचरितद्वेषस्य वैरिणः । यद्वा,-दुष्टश्चानपराधोऽपि निग्रहं प्राप्नोत्येवेत्यर्थः । शुष्कवंशप्रहारेण । शुष्कॊऽतिदीर्घत्वप्रतिपादनाय । एवंभूतस्य शिरः कुट्यते। तथा तव शिरः कुट्टिष्यामि ।। राजश्यालकेत्यादि । संस्थानक इति तस्य नाम । उपमर्दो निग्रहः । मा दुग्गदो इति। गाथा । मा दुर्गत इति परिभवो नास्ति कृतान्तस्य दैवस्य दुर्गतो नाम । 'नाम' संभावनायाम् । चारित्र्येण