विटः– ( सवैलक्ष्यम् ) महाब्राह्मण ! मर्षय मर्षय । अन्यजनशङ्कया खल्विदमनुष्ठितम्, न दर्पात् । पश्य,—
सकामान्विष्यतेऽस्माभिः ।
विदूषकः— किं इअं ? । [ किमियम् ? ।]
विटः– शान्तं पापम् ।।
काचित्स्वाधीनयौवना ।। |
सर्वथेदमनुनयसर्वस्वं गृह्यताम् । ( इति खङ्गमुत्सृज्य कृताञ्जलिः पादयोः पतति ) ।
विदूषकः— सप्पुरिस ? उट्ठॆहि उट्ठॆहि । अआणंतेण मए तुमं उवालद्धे । संपदं उण जाणंतो अणुणेमि । [ सत्पुरुष ! उत्तिष्ठॊत्तिष्ठ । अजानता मया त्वमुपालब्धः । सांप्रतं पुनर्जानन्ननुनयामि । ]
विटः— ननु भवानेवात्रानुनेयः । तदुत्तिष्ठामि समयतः ।
विदूषकः— भणादु भवं । [ भणतु भवान् ।]
विटः— यदीमं वृत्तान्तमार्यचारुदत्तस्य नाख्यास्यसि ।
विदूषकः — ण कधइस्सं । [ न कथयिष्यामि ।]
विट:—
एष ते प्रणयो विप्र ! शिरसा धार्यते मया । |
विहीन आढ्यॊऽपि दुर्गतो दरिद्रो भवति ।। ४३ ॥ महाब्राह्मणश्चााण्डालः । सकामॆति ।‘सकामा', 'स्वाधीनयौवना ॑ इति पदाभ्यामस्या धारणं नापराधाय। सा वेश्या तिष्ठति न त्वियमित्याशयः । शीलवञ्चना दुश्चरितसंभावना ॥ ४४ ॥ सत्पुरुष ! उत्तिष्ठॊत्तिष्ठ । अजानता मया त्वमुपालब्धः; सांप्रतं पुनर्जानन्ननुनयामि । आदरविषयताऽनुनयः ॥ समयः क्रियाबन्धः ॥ समयमेवाह – यदीममिति ॥ एष इति । गुणशस्त्रैः गुण एव शस्त्राणि तैः ॥ ४५ ॥ किंनिमित्तं पुनर्भाव ।
पाठा० — १ भ्रष्टा