एतत् पृष्ठम् परिष्कृतम् अस्ति
३६
मृच्छकटिके

 शकरः—(सासूयम्) किंणिमित्तं उण भावे! एदश्श दुश्टबडुअश्श किविणं अंजलिं कदुअ पाएशु णिवडिदे?। [किंनिमित्तं पुनर्भाव! एतस्य दुष्टबटुकस्य कृपणाञ्जलिं कृत्वा पादयोर्निपतितः?।]

 विटः—भीतोऽस्मि।

 शकारः—कश्श तुम भीदे है?। [कस्मात्वं भीतः?।]

 विटः—तस्य चारुदत्तस्य गुणेभ्यः।

 शकारः—के विअ तश्श गुणा जश्श गेहं पविशिअ अशिदव्वं पिणत्थि। [के इव तस्य गुणा यस्य गृहं प्रविश्याशितव्यमपि नास्ति।]

 विटः—मा मैवम्,—

सोऽस्मद्विधानां प्रणयैः कृशीकृतो
न तेन कश्चिद्विभवैर्विमानितः।
निदाघकालेष्विव सोदको ह्रदो
नृणां स तृष्णामपनीय शुष्कवान्॥४६॥

 शकारः—(सामर्षम्) के शे गब्भदाशीअ पुत्ते?।

शुले विक्कंते पंडवे शेदकेदू
पुत्ते लाधाए लावणे इंददत्ते।
आहो कुंतीए तेण लामेण जादे
अश्शत्थामे धम्मपुत्ते जडाऊ॥४७॥

[कः स गर्भदास्याः पुत्रः?

शूरो विक्रान्तः पाण्डवः श्वेतकेतुः पुत्रो राधाया रावण इन्द्रदत्तः।
आहो कुन्त्यास्तेन रामेण जातः अश्वत्थामा धर्मपुत्रो जटायुः॥]


एतस्य दुष्टबटुकस्य पादयोर्निपतितः?। किविणं कृपणम्॥ के तस्य गुणा यस्य गृहं प्रविश्याशितव्यं भोक्तव्यमपि नास्ति। यद्वा,—अण्हिअदव्वं पि आहिकद्रव्यमद्य भोक्तव्यमपीत्यर्थः।। स इति। प्रणयैः प्रार्थनाभिः। ‘बेहप्रकारैः समयोचितदानैरित्यर्थः' इत्येके॥४६॥ केशे गब्भदासीए पुत्ते शूले इत्यादि॥ श्लोको वैश्वदेव्या वृत्तेन। कः से गर्भदास्था जन्मदास्याः पुत्रः? शूरो बिकान्तः