पृष्ठम्:मृच्छकटिकम्.pdf/४६

पुटमेतत् सुपुष्टितम्
३८
मृच्छकटिके


 विटः— एवम् ; गच्छामि । ( इति निष्क्रान्तः )

 शकारः— गडे खु भावे अभावं । ( विदूषकमुद्दिश्य ।) अले काकपदशीशमश्तका दुश्टवडुअका | उवविश उवविश । [ गतः खलु भावोऽभावम् । अरे काकपदशीर्षमस्तक दुष्टबटुक ! उपविशोपविश ।।

 विदूषकः— उववेसिदा जेव्त्र अम्हे । [ उपवेशिता एव वयम् ।]

 शकारः— केण ? । [ केन ? ।]

 विदूषकः— कअंतेण । [ कृतान्तेन ।]

 शकारः— उठ्ठॆहि उठ्ठॆहि । [उत्तिष्ठॊत्तिष्ठ ।]

 विदूषकः— उठ्ठिस्सामो। [ उत्थास्यामः ।]

 शकारः— कदा ? । [कदा ?।]

 विदूषकः– जदा पुणो वि देव्वं अणुऊलं भविस्सदि । [यदा पुनरपि दैवमनुकूलं भविष्यति ।।

 शकारः— अले, लोद लोद । [ अरे, रुदिहि रुदिहि ।]

 विदूषकः— रोदाविदा जेव्व अम्हे । [ रोदिता एव वयम् ।

 शकारः— केण ? । [ केन ? ।।

 विदूषकः– दुग्गदीए । [दुर्गत्या।]

 शकारः— अले, हश हश । [अरे, हस हस ।]


यदि चेदर्थे । चेन्नास्ति तदा गम्यताम् ॥ ५० ॥ ततः खलु भावोऽभावमदर्शनम् । काकपदशीशमश्तका इति । द्यूताद्यकार्यप्रवृत्तौ काकपदाकारा ये धूर्तास्तेषां शीर्षप्रायः प्रामण्यस्तेषां मस्तकभूत धूर्तचक्रवर्तिनामपि प्रधानभूत । एतेनाचारकुलयोराक्षेपः कृतः। केचित्तु-काकपदशीर्ष काकपदवत्पञ्चधा शीर्ष मस्तकं यस्य । पञ्चेस्युपलक्षणम् । अष्टकपालः । तेनालक्षणयुक्तमस्तक इत्यर्थः इत्याहुः । अत्र च मते शीशमश्तका इति शकारवाणीत्वेन पुनरुक्त्वम् न दोषः। दुष्टचटो। अरे रुदिहि ॥ अरे दुष्टबटुक ! भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम् -‘एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्त-