पुटमेतत् सुपुष्टितम्
४०
मृच्छकटिके

लिकाए पाशादबालग्गकवोदवालिआए उवविश्टे शुणामि तधा जदि ण भणेशि, त कवालतलप्प विश्टं कवित्थं विअ मश्तअं दे मडमडाइश्शं। [अरे दुष्टबटुक! भणिष्यसि मम वचनेन तं दरिद्रचारुदत्तकम्—

‘एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोस्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति स्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा। तद्यदि मम हस्ते स्वयमेव प्रस्थाप्यैनां समर्पयसि, ततोऽधिकरणे व्यवहारं विना लघु निर्यातयतस्तव मयानुबद्धा प्रीतिर्भविशष्यति। अथवाऽनिर्यातयतो मरणान्तिकं वैरं भविष्यति। अपि च प्रेक्षस्व,

कूष्माण्डी गोमयलिप्तवृन्ता शाकं च शुष्कं तलितं खलु मांसम् ।
भक्तं च हैमन्तिकरात्रिसिद्धं लीनायां च वेलायां न खलु भवति पूति ॥

शोभनं भणिष्यसि, सकपटं भणिष्यसि। तथा भणियसि यथाहमात्मकीयायां प्रासादबालाग्रप्रकपोतपालिकायामुपविष्टः शृणोमि। अन्यथा यदि भणसि, तदा कपाटतलप्रविष्टं कपित्थगुलिकमिव मस्तकं ते मडमडायिष्यामि।’]

 विदूषकः—भणिस्सं। [भणिष्यामि।]

 शकारः—(अपवार्य) चेडे! गडे शच्चकं जेव्व भावे। [चेटः गतः सत्यमेव भावः।]

 चेटः—अध इं। [अथ किम्।]

 शकारः—ता शिग्धं अवक्कमम्ह। [तच्छीघ्रमपक्रमावः।]


पूदी पूतिः॥ धिरेतनत्वेन प्रशिथिलं स्वकार्यम्॥५१॥ शोश्तकं शोभनम्। लश्तकं सकपटम्। भणिष्यसि। तथा भणिष्यसि। भणेशी इति भविष्यद्वर्तमानयोस्तुल्यं रूपम्। यथाहमात्मकीयायां प्रासादस्य बालग्रलक्षितायां कपोतपालिकायां विटङ्के। ‘बालाग्रं मत्तवारणम्। कपोतपालिका उपरिगृहश्रेणीति दक्षिणापथे लोकोक्तिरियम्’ इति प्राचीनटीका। तस्यामुपविष्टः शृणोमि। अन्यथा यदि भणसि तदा कपाटप्रविष्टं कपित्थगुलिकमिव मस्तकं तव शब्दविशेषयुक्तं तथा भक्षयिष्यामि लोकोक्त्या मडमडायिश्शं इति व्याख्यायते। कपित्थं फलविशेषः। 'लश्तकं शोश्तकं द्वयमपि शोभनार्थम्' इति प्राचीनटीका॥ हे चेट! मतो भावो विदः, सत्यम्॥ ततः शीघ्रमपक्रमावः।।