पृष्ठम्:मृच्छकटिकम्.pdf/५१

पुटमेतत् सुपुष्टितम्
४३
प्रथमोऽङ्कः

 चारुदत्तः

  छादिता शरदभ्रेण चन्द्रलेखेव दृश्यते ॥५४॥

अथवा, न युक्तं परकलत्रदर्शनम्।

 विदुषकः—भो, अलं परकलत्तदंसणसंकाए। एसा वसंतसेणा कामदेवाअदणुज्जाणादो पहुदि भवंतमणुरत्ता। [भोः, अलं परकलत्रदर्शनशङ्कया। एषा वसन्तसेना कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्ता।]

 चारुदत्तः—अये, इयं वसन्तसेना। (स्वगतम्)

यया मे जनितः कामः क्षीणे विभवविस्तरे।
क्रोधः कुपुरुषस्येव स्वगात्रेष्वेव सीदति ॥५५॥

 विदूषकः—भो वअस्स! एसो खु राअसालो भणादि। [भो वयस्य! एष खलु राजश्यालो भणति।]

 चारुदत्तः—किम्?।

 विदूषकः—एसा ससुवण्णा सहिलण्णा णवणाडअदंसणुट्ठिदा सुत्तधालि व्व बसंतसेणा णाम गणिआदालिआ कामदेवाअदणुज्जाणादो पहुदि तुमं अणुलत्ता अम्हेहिं बलक्काराणुणीअमाणा तुह गेहं एविट्ठा। [एषा ससुवर्णा सहिरण्या नवनाटकदर्शनोत्थिता सूत्रधारीव वसन्तसेनानाम्नी गणिकादारिका कामदेवायतनोद्यानात्प्रभृति त्वामनुरक्तास्माभिर्बलात्कारानुनीयमाना तव गेहं प्रविष्टा।]

 वसन्तसेना—(स्वगतम्) बलक्कारागुणीअमाणेत्ति जं सच्चं, अलंकिदम्हि एदेहिं अक्खरेहिं। [बलात्कारानुनीयमानेति यत्सत्यम्, अलंकृतास्येतैरक्षरैः।]


भाग्यं शोभनं कर्म॥५३॥ अविज्ञातेति। दूषिता परपुरुषत्वात्॥५४॥ कामदेवायतनोद्यानात्प्रभृति॥ ययेति। सीदति कर्तव्यासामर्थ्यात्प्रब्यक्तो न