पृष्ठम्:मृच्छकटिकम्.pdf/५३

पुटमेतत् सुपुष्टितम्
४५
प्रथमोऽङ्कः

सेण सीसेण दुवेवि तुम्हे पसादेमि। [भोः, द्वावपि युवां सुखं प्रणम्य कलमकेदारावन्योन्यं शीर्षेण शीर्षं समागतौ। अहमप्यमुना करभजानुसदृशेन शीर्षेण द्वावपि युवां प्रसादयामि।]

(इत्युत्तिष्ठति)

 चारुदत्तः—भवतु, तिष्ठतु प्रणयः।

 वसन्तसेना—(स्वगतम्) चदुरो मधुरो अ अअं उवण्णासो। ण जुत्तं अज्ज एरिसेण इध आअदाए मए पडिवासिदुं। भोदु, एव्वं दाव भणिस्सं। (प्रकाशम् अज्ज! जइ एव्वं अहं अज्जस्स अणुग्गेज्झा ता इच्छे अहं इमं अलंकारअं अज्जस्स गेहे णिक्खिविदुं। अलंकारस्स णिमित्तं एदे पावा अणुसरंति। [चतुरो मधुरयायमुपन्यासः। न युक्तमद्येदृशेनेहागतया मया प्रतिवस्तुम्। भवतु, एवं तावद्भणिष्यामि। आर्य! यद्येवमहमार्यस्यानुग्राह्या तदिच्छाम्यहमिममलंकारकमार्यस्य गेहे निक्षेप्तुम्। अलंकारस्य निमित्तमेते पापा अनुसरन्ति।]

 चारुदत्तः—अयोग्यमिदं न्यासस्य गृहम्।

 वसन्तसेना—अज्ज। अलिअं। पुरिसेसु णासा णिक्खिविअंति, ण उण गेहेसु। [आर्य! अलीकम्। पुरुषेषु न्यासा निक्षिप्यन्ते, न पुनर्गेहेषु।]

 चारुदत्तः—मैत्रेय! गृह्यतामयमलंकारः।

 वसन्तसेना—अणुग्गहीद म्हि। [अनुगृहीतास्मि।]

(इत्यलंकारमर्पयति)

 विदूषकः—(गृहीत्वा) सोत्थि भोदीए। [स्वस्ति भवत्यै।]

 चारुदत्तः—धिङ् मूर्ख! न्यासः खल्वयम्।


पुष्पिताग्र बृत्तम्॥५६॥ अनुचितभूमिसमारोहणं पक्षद्वारेणावासप्रवेशादिकम्॥ करभ उष्ट्रशिशुः॥ 'प्रणय' इत्यनेन संभोगप्रार्थना कटाक्षिता॥ ईदृशेनागृहीतसंभोगोपकरणादिना। पापा अकार्यकारिणः॥ भग्नत्वाद्रक्षकाभावाट्चायो-