पृष्ठम्:मृच्छकटिकम्.pdf/५८

पुटमेतत् सुपुष्टितम्
५०
मृच्छकटिके

 मदनिका--किं अणेअणअराभिगमणजणिदविहववित्थारो वाणि- अजुआ वा कामीअदि ? । [ किमनेकनगराभिगमनजनितविभवविस्तारो वाणिजयुवा वा काम्यते ? ।]

 वसन्तसेना-हञ्जे ! उवारूढसिणेहं पि पणइजणं परिञ्चइअ देसंतरगमणेण वाणिअजणो महंतं विओअजं दुक्खं उप्पादेदि । [ चेटि ! उपारूढस्नेह्मपि प्रणयिजनं परित्यज्य देशान्तरगमनेन वाणिजजनो महद्वियोगजं दुःखमुत्पादयति ।]

 मदनिका-अज्जए ! ण राआ, ण राअवल्लहो, ण बम्हणो, ण वाणिअजणो; ता को दाणिं सो भट्टिदारिआए कामीअदि ? । । [आयें ! न राजा, न राजवल्लभः, न ब्राह्मणः, न बाणिजजनः; तत्क इदानीं स भर्तृदारिकया काम्यते ?।1।

 वसन्तसेना–हञ्जे ! तुमं मए सह कामदेवाअणुज्जाणं गदा आसि । [ चेटि ! त्वं मया सह कामदेवायतनोद्यानं गतासीः ।]

 मदनिका-अज्जए ! गदम्हि । [ आर्ये ! गतास्मि । ]

 वसन्तसेना---तह वि में उदासीणा विअ पुच्छसि १ । [ तथापि मामुदासीनेव पृच्छसि ? ।।

 मदनिका---जाणिदं, किं सो ज्जेवे जेण अज्जआ सरणाअदा अब्भुववण्णा ? । [ज्ञातम्, किं स एव येनार्या शरणागताभ्युपपन्ना ? ।]

 बसन्तसेना--किंणामहेओ खु सो ? । [ किनामधेयः खलु सः ? ]

{{gap} मदनिका-सो खु सेट्टिचत्तरे पडिवसदि । [ स खलु श्रेष्टिचत्वरे प्रतिवसति । ] ।

 वसन्तसेना–अइ ! णामं से पुच्छिदासि । [ अयि! नामास्य पृष्टासि ।।


वा ॥ ण सेविदुं । कामोपभोगरसिकास्मि, न द्व्याथिनीत्यर्थः ॥ पूजनीयाश्च ये भवन्ति तेषां विलासवैमुख्यं सदेति भावः । उवारूढसिणेहं विवृद्धस्नेहम् ॥


टिप्प-1 वणिजोऽयं वाणिजः, 'तस्येदम्' इत्यम्, वावासराक्षसादिवद्वा

स्वार्थेऽण् । 2 अनुगृहीतेत्यर्थः, अभ्युपपत्तिरनुग्रहः ।