प्रमुखा विकल्पसूचिः उद्घाट्यताम्
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
द्वितीयोऽङ्कः

 मदनिका--सो खु अज्जए ! सुगहीदणामहेओ अज्जचारुदत्तो णाम । [ स खलु आयें ! सुगृहीतनामधेय आर्यचारुदत्तो नाम ।]

 वसन्तसेना—(सहर्षम् ) साहु मदणिए । साहु । मुट्टु तुए जाणिदं । [ साधु मदनिके! साधु । सुष्टु त्वया ज्ञातम् ।]

 मदनिका---(स्वगतम् ) एव्वं दाव । (प्रकाशम् ) अज्जए ! दलिद्दो खु सो सुणीअदि। [एवं तावत् । आयें ! दरिद्रः खलु स श्रूयते ।]

 वसन्तसेना----अदो ज्जेव कामीअदि । दलिद्दपुरिससंकंतमणा खु गणिआ लोए अवअणीआ भोदि । [ अत एव काम्यते । दरिद्रपुरुष- संक्रान्तमनाः खलु गणिका लोकेऽवचनीया भवति ।]

 मदनिको---अज्जए ! किं हीणकुसुमं सहआरपीदवं महुअरीओ उण सेवंति ? । [आयें ! किं हीनकुसुमं सहकारपादपं मधुकर्यः पुनः सेवन्ते ? ।]

 वसन्तसेना---अदो ज्जेव ताओ महुअरीओ बुच्चति । [अत एव ता मधुकर्य उच्यन्ते ।]

 मदनिका---अज्जए ! जई सो मणीसिदो ता कीस दाणि सहसा ण अहिसारीअदि ? । [ आयें, यदि स मनीषितस्तत्किमर्थमिदानीं सहसा नाभिसर्यते ?।]

 वसन्तसेना–हञ्जे ! सहसा अहिसारिअंतो पंचुअआरदुब्बल- दाए, मा दाव, जणो दुल्लहदंसणो पुणो भविस्सदि । [ चेटि ! सहसा-


भट्टिदारिआए ईश्वरसुतया ॥ सुहिदा सुखयुक्ता (?) ॥ अभ्युपपन्ना स्वीकृता ॥ सुगृहीतनामधेयो दातृत्वेन ॥ दरिद्रपुरुषदत्तमना अवचनीया भवति अर्थानभि- लषित्वात् । अतिख (?) श्चारुदत्तो ब्राह्मणः, अनध्यापकत्वेन विलासी, अन्यश्च श्रोत्रियः, तर्कतञ्त्रप्रवीणः पूजनीयः न काम्यो विलासवैमुख्यादित्याशयः ॥ महुअरीओ इति । मधु कुर्वन्ति सेवन्ते । मत्ता इत्यर्थः ॥ भट्टेति द्यूतकरस्य


टिप्प०-1 प्रवचनीयार्थानभिलाषेण गुणमात्रानुरागेण च वाक् अगोचरमाहाम्यशालिनीत्यर्थः ।