पुटमेतत् सुपुष्टितम्
५४
मृच्छकटिके

 माथुरः--

कहिं कहिं सुसहिअविप्पलंभआ
पलासि ले भअपलिवेविदंगआ ।
पदे पदे समविसमं खलंतआ
कुलं जसं अइकसणमं कलेंतआ ॥ ४ ॥

[ कुत्र कुत्र सुसभिकविप्रलम्भक ! पलायसे रे भयपरिवेपिताङ्गक ।
पदे पदे समविषमं स्खलन्कुलं यशोऽतिकृष्णं कुर्वन् ॥ ]

 द्यूतकरः---(पदं वीक्ष्य ) एसो वज्जदि । इअं पणट्टा पदवी । [ एष व्रजति । इयं प्रनष्टा पदवी । ]

 माथुरः---( आलोक्य, सवितर्कम् ) अले, विप्पदीवू पादु । पङिमाशुण्णु देउलु । ( विचिन्त्य ) धुत्तु जूदकरु विप्पदीवेहिं पादेहिं देउलं पविट्टो । [ अरे, विप्रतीपौ पादौ । प्रतिमाशून्यं देवकुलम् । धूर्तो धूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्टः ।]

 द्यूतकरः–ता अणुसरेम्ह । [ ततोऽनुसरावः।]

 माथुरः--एवं भोदु । [ एवं भवतु ।]

(उभौ देवकुलप्रवेशं निरूपयतः, दृष्ट्वान्योन्यं संज्ञाप्य )

 द्यूतकरः-कधं कट्ठमयी पडिमा ? । [ कथं काष्ठमयी प्रतिमा ? ।]

 माथुरः-अले, ण हु ण हु, शैलपडिमा । ( इति बहुविधं चालयति संज्ञाप्य च ) एव्वं भोदु । एहि, जूदं किलेम्ह । [अरे, न खलु न


रुद्रोऽपि न रक्षितुं शक्नोति ॥ ३ ॥ कहिं कहिमित्यादि। रुचिरावृत्तम् । कुत्र कुत्र सुसभिकविप्रलम्भक पलायसे रे भयपरिवेपमानाङ्गक । पदे पदे सम- विषमं यथा स्यादेवं स्खलन्कुलं यशश्चातिकृष्णं कुर्वन् ॥ ४ ॥ भट्टा भट्टेत्यन्योन्य- संबोधनम् (?)। अरे, वि प्रतीपपादशून्यं देवकुलम् । प्रयोजनाभावेन नात्र मानुष इति भावः । धूर्तो द्यूतकरो विप्रतीपाभ्यां पादाभ्यां देवकुलं प्रविष्ट इत्येके । धूर्तो द्यूतकरो विप्रतीपपादाभ्यां देवकुलं प्रविष्टः ॥ ततोऽनुसरावः ॥ संज्ञापनं प्रतिमा-