पृष्ठम्:मृच्छकटिकम्.pdf/६६

पुटमेतत् सुपुष्टितम्
५८
मृच्छकटिके

 संवाहकः--कुदो मे पिदा है। [ कुतो मे पिता ? ।]

 माथुरः-मादरु विक्किणिअ पअच्छ। [ मातरं विक्रीय प्रयच्छ] ।]

 संवाहकः–कुदो में मादा ? । [ कुतो में माता ?।]

 माथुरः--अप्पाणं विक्किणिअ पअच्छ । [ आत्मानं विक्रीय प्रयच्छ ।]

 संवाहकः----कुलेध पशादं । णेध मं लाजमग्गं । [ कुरुत प्रसादम् । नयत मां राजमार्गम् ।।

 माथुरः---पसरु । [प्रसर ।]

 संवाहकः----एव्वं भोदु । ( परिक्रामति ) अज्ज़ा ! क्किणिध मं इमश्श शहिअश्श हत्थादो दशेहिं शुवण्णकेहिं । ( दृष्ट्वा आकाशे' ) किं भणाध-‘किं कलईश्शशि' त्ति ? । गेहे दे कग्मकले हुविश्शं । कधं ? अदइअ पडिवअणं गदे ? । भोदु एव्वं । इमं अण्णं भणइश्शं । ( पुनस्तदेव पठति ) कधं एशे वि मं अवधीलिअ गदे । हा, अज्जचालुदत्तस्स विहवे विहडिदे एशे वड्ढामि मंदभाए । [एवं भवतु । आर्याः!! क्रीणीध्वं मामस्य सभिकस्य हस्ताद्दशभिः सुवर्णकैः । किं भणत-‘किं करिष्यसि' इति ? । गैहे ते कर्मकरो भविष्यामि । कथं अदत्त्वा प्रतिवचनं गतः ?। भवत्वेवम् , इममन्यं भणिष्यामि । कथं एषोऽपि मामवधीर्य गतः ? । हा, आर्यचारुदत्तख विभवे विघटिते एष वर्ते मन्दभाग्यः ।]

 माथुरः—णं देहि । [ननु देहि ।]


एत्थे तुए अत्र त्वया । धुत्तिज्जामि धूते ( र्ये ) प्रतार्ये । पेदंडा लुप्तदण्डक ॥ कुत इति लाभोपायप्रश्ने। पिदरू विक्किणिअ प्रयच्छ पितरं विक्रीय प्रयच्छ । मादरु विक्किणिअ मातरं विक्रीय ॥ कलेध कुरुते । णेध नयत मं माम् । राजमार्गम् ॥ पसरु प्रसर्प । क्किणिध क्रीणीध्वम् । सहिअस्स हत्थादो सभिकस्य पार्श्वादित्यर्थः । असौ तव कर्मकरो भविष्यामि । हा, आर्यचारुदत्तस्य विभवे विघटिते तस्मिन्निर्धने