पृष्ठम्:मृच्छकटिकम्.pdf/६८

पुटमेतत् सुपुष्टितम्
६०
मृच्छकटिके

अयं पटः सूत्रदरिद्रतां गतो ह्ययं पटश्छिद्रशतैरलंकृतः ।
अयं पटः प्रावरितुं न शक्यते ह्ययं पटः संवृत एव शोभते ॥ १० ॥

अथवा किमयं तपस्वी करिष्यति ? । यो हि ।

पादेनैकैन गगने द्वितीयेन च भूतले ।
तिष्ठाम्युल्लम्बितस्तावद्यावत्तिष्ठति भास्करः ॥ ११ ॥

 माथुरः–दापय दापय । [ दापय दापय ।]

 संवाहकः-कुदो दइश्शं ? । [ कुतो दास्यामि ?।]

( माधुरः कर्षति ) ।

 दर्दुरकः--अये, किमेतदग्रतः ।। ( आकाशे) किं भवानाह- अयं द्यूतकरः सभिकेन खलीक्रियते, न कश्चिन्मोचयति' इति ।। नन्वयं दर्दुरो मोचयति । ( उपसृत्य ) अन्तरमन्तरम् । ( दृष्ट्वा ) अये, कथं माथुरो धूर्तः । अयमपि तपस्वी संवाहकः,---

यः स्तब्धं दिवसान्तमानतशिरा नास्ते समुल्लम्बितो
यस्योद्धर्षणलोष्टकैरपि सदा पृष्ठे न जातः किणः ।
यस्यैतश्च न कुकुरैरहरहर्जङ्घान्तरं चर्व्यते ते
तस्यात्यायतकोमलस्य सततं धूतप्रसङ्गेन किम् ? ॥ १२॥

भवतु, माथुरं तावत्सान्त्वयामि । (उपगम्य ) माथुर ! अभिवादये ॥

( माथुरः प्रत्यभिवादयते )

 दर्दुरकः किमेतत् ?।।

 माथुरः-अअं दशसुवण्णं धालेदि । [ अयं दशसुवर्ण धारयति ।]


इति केचित् ॥ ९॥ अयमिति ।। १० ॥ तपस्वी वराकः ॥ पादेनेति ॥ ११ ॥ खलीक्रियते भर्त्स्य॑ते । अन्तरमन्तरमिति जन समंर्दै प्रवेशायांव- काशप्रार्थना। य इति । उद्धर्षण: संघर्षणः । किणः ‘घाटिः' इति प्रसिद्धः । यच्छरैर्लगुणैण्यत्ते (?)। ‘कुकुरैश्चर्व्यते' इति पाठो व्यक्त एव । न ध्यायतो न निःशेषयतः (१)। अत्यायतो विपुलशरीरः। तथा कोमलस्य । “व्यायतोऽकृतश्रमः' इति पूर्वटीका ॥ १२ ॥ कल्लवत्तं प्रातर्भोजनम् । तत्साधनमेत्तद्रव्यमिद-