पृष्ठम्:मृच्छकटिकम्.pdf/७

पुटमेतत् सुपुष्टितम्

मृच्छकटिकस्थपात्राणां परिचयः
-पुमांसः-

सूत्रधार:-प्रधाननटः
चारुदत्तः-ब्राह्मणसार्थवाहोदारचारित्रो नितान्तदानक्षीणार्थोऽत्र वसन्तसेनाप्रियतमः प्रधाननायकः ।
रोहसेनः-आर्यचारुदत्तस्य पुत्रः
मैत्रेयः-आर्यचारुदत्तस्य सहायो वयस्यः, विदूषकश्चात्र प्रकरणे । सुनिपुणोऽयं प्रतिवस्तुसमीक्षायां तत्त्वान्वेषणे च नितरां चतुरः
वर्धमानः-आर्यचारुदत्तस्य परिचारकः
संस्थानकः पालकस्य राजश्यालकः शकारापराभिधेयो दयादाक्षिण्य-
शकारः हीनश्चार्यचारुदत्तं प्रति नितान्तबद्धवैरोऽत्र प्रतिनायकः
विट:-शकारस्य परिचरः
स्थावरकः-धर्मभीरुर्यथार्थवक्ता शकारस्य दासोऽयं परिवाहकः
आर्यकः--गोष्ठाध्यक्षः, यः पालकं व्यापाद्य उज्जयिन्याश्च सिंहासनमलञ्चकार
शर्विलकः-चतुर्वेदविदः प्रतिग्राहकस्य पुत्रः कुलीनोऽयं ब्राह्मणः सुतरां
चौर्यचतुरः, स्तैन्यशास्त्रेऽत्यभिमानी धैर्य-दाक्षिण्य-सौहार्दयुक्तो मदनिकायामनुरक्तः
संवाहकः आर्यचारुदत्तस्य पूर्वपरिचारकः धनशून्यत्वे च द्यूतोपजीवी
भिक्षुः संवृत्तः, तत्रापि निर्वेदेन शाक्यश्रमणकत्वमुपगतः
चन्दनकः
वीरकः अवन्तीनगर्याः प्रधानरक्षकौ 'हेड कॉन्स्टेबल'संज्ञौ
विटः-वसन्तसेनायाः परिचारकः
बन्धुलाः-गणिकादारकाः
कुम्भीलकः-बसन्तसेनाया अपरो भृत्यः
चाण्डालौ---अवन्तीनगरीस्थौ वधकर्मनियुक्तौ गोहा-आहीन्तासंज्ञौ चाण्डालो