पुटमेतत् सुपुष्टितम्
७५
द्वितीयोऽङ्कः

 वसन्तसेना–सुट्ठु दे किदं; तदो तदो । [ सुष्टुं त्वया कृतम् । ततस्ततः ।।

 कर्णपूरकः——तदो अज्जए ! ‘साई रे कण्णऊरअ । साहु’ त्ति एत्तिअमेत्तं भणंती, विसमभरक्कंता विअ णावा, एक्कदो पल्हत्था सअला उज्जइणी आसि । तदो अज्जए ! एक्केण सुण्णाइं आहरणट्टाणाइंपरामुसिअ उद्धं पेक्खिअ दीहं णीससिअ अअं पावारओ मम उवरि क्खित्तो । [ तत आर्ये ! ’साधु रे कर्णपूरक ! साधु' इत्येतावन्मात्रं भणन्ती, विषमभराक्रान्ता इव नौः एकतः पर्यस्ता सकलज्जयिन्यासीत् । तत आयें ! एके[१]न शून्यान्याभरणस्थानानि परामृश्य ऊर्ध्र्वं प्रेक्ष्य दीर्घं निःश्वस्यायं प्रावारको ममोपरि क्षिप्तः ।]  वसन्तसेना---कण्णऊरअ! जाणीहि दाव किं एसो जादीकुसुमवासिदो पावारओ ण वेत्ति । | कर्णपूरक ! जानीहि तावत्किमेष जातीकुसुमवासितः प्रावारको न वेति ।]

 कर्णपूरकः-अज्जए ! मदगंधेण सुट्ठु तं गंधं ण जाणामि । [ आर्ये! मदगन्धेन सुष्टु तं गन्धं न जानामि ।]

 वसन्तसेना--णामं पि दाव पेक्ख । [ नामापि तावत्प्रेक्षस्व ।]

 कर्णपूरकः--इमं णामं, अज्जआ एव्व वाएदु । [ इदं नाम, आर्यैव वाचयतु ।] ( इति प्रावारकमुपनयति )

 वसन्तसेना--अज्ज्ञचारुदत्तस्स । [ आर्य चारुदत्तस्य ।] ( इति वाच- यित्वा सस्पृहं गृहीत्वा प्रावृणोति )

 चेटी-कण्णऊरअ ! सोहदि अज्जआए पावारओ । [ कर्णपूरक! शोभत आर्यायाः प्रावारकः ।]


टिप्प०-

  1. 1 चारुदतेनेत्यर्थः । स्वाङ्गे भूषणानि न सन्ति' इति विचार्य, दरिदोऽहं जातः' इति निर्विद्य च देवान्तराभावाद प्रावारकमेव प्रादादिति भावः । अयं हि प्रथमाङ्के वर्णितः प्रावारिक इति ज्ञेयम् ।