पृष्ठम्:मृच्छकटिकम्.pdf/८६

पुटमेतत् सुपुष्टितम्
७८
मृच्छकटिके

द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुं
योऽपि स्वा[१]भाविकदोषो न शक्यो वारयितुम् ॥

कापि वेलार्यचारुदत्तस्य गा[२]न्धर्वं श्रोतुं गतस्य । अतिक्राम[३]त्यर्धरजनी । अद्यापि नागच्छति । तद्यावद्धहिर्द्वारशालायां गत्वा स्वप्स्यामि ।]

( इति तथा करोति )

( ततः प्रविशति चारुदतो विदूषकश्च )

 चारुदत्तः----अहो अहो ! साधु साधु, रेभिलेन गीतम् । वीणा हि[४] नामासमुद्रोत्थित रत्नम् । कुतः,-

उत्कण्ठितस्य हृदयानुगुणा वयस्या
संकेतके चिरयति प्रवरो विनोदः ।
संस्थापना प्रियतमा विरहातुराणां
रक्तस्य रागपरिवृद्धिकरः प्रमोदः ॥ ३ ॥

 विदूषकः---भो, एहि । गेहं गच्छेम्ह । [ भोः, एहि । गृहं गच्छावः ।]


लम्पटः । 'पडकला' इति महाराष्ट्रभाषा । सस्यलम्पटो बलीवर्दो न शक्यो वारयितुम् । अन्यप्रसक्तकलत्रं न शक्यं वारयितुम् । द्यूतप्रसक्तमनुष्यो न शक्यो वारयितुम् । योऽपि स्वाभाविको दोषः सोऽपीत्यर्थान्न शक्यो वारयितुम् ॥ अतिरिक्तदातृत्वं दोष एवेति । तं च मम स्वामी न त्यजतीति भावः ॥ २ ॥ गन्धव्यं गान्धर्वम् ; गीतमित्यर्थः ॥ उत्कण्ठितस्येति॥ ३॥ सुक्कअं संस्कृ- {{rule]] टिप्प०---। अत्र न्यूनता द्रूप्यरूपकमलङ्कारः । उत्कण्ठितस्य कान्तासक्तस्य विरहिणो मनोनुगुणा वयस्या सखी वीणेत्यर्थः । यस्या वीणायाः प्रवरो विनोदो वादनव्यापारः संकेतके चिरं स्थापयति । संकेतकं नामानुरागिणोमींलने संकेतः, पक्षे;-वीणावादने संकेतविशेषः । विरहातुराणमतिप्रिया

संस्थापना विरहव्याप्तप्तप्राणसंबोधना वीणेत्याशयः ।


  1. 1 ईदृग्दशायां दातृत्वं दोषः, तं च मम स्वामी न त्यजतीति व्यज्यते ।
  2. 2 सङ्गीतसहितं गीतं गान्धर्वम् ।
  3. ३ निशीथोऽपि न जात इत्यर्थः।
  4. 4 इह जगति वीणा रत्नमेव, परंतु समुद्रोत्थितं न भवतीत्याशयः