पृष्ठम्:मृच्छकटिकम्.pdf/८८

पुटमेतत् सुपुष्टितम्
८०
मृच्छकटिके

हेलासंयमितं पुनश्च ललितं रागद्विरुच्चारितं
यत्सत्यं विरतेऽपि गीतसमये गच्छामि श्रृ[१]ण्वन्निव ॥ ५ ॥

 विदूषकः--भो वअस्स ! आवणंतररच्छाविभाएसु सुहं कुक्कुरा वि सुत्ता। ता गेहूं गच्छेम्ह। ( अग्रतोऽवलोक्य ) वअस्स ! पेक्ख पेक्ख । एसो वि अंधआरस्स विअ अवआसं देंतो अंतरिक्खपासादादो ओदरदि भअवं चंदो । [ भो वयस्य ! आपणान्तररथ्वाविभागेषु सुखं कुकुरा अपि सुप्ताः । तद्गृहं गच्छावः । वयस्य ! पश्य पश्य । एषोऽप्यन्धकारस्येवावकाशं दददन्तरिक्षप्रासादादवतरति भगवांश्चन्द्रः ।]

 चारुदत्तः-सम्यगाह भवान्

असौ हि दत्त्वा तिमिरावकाशमस्तं व्रजत्युन्नतकोटिरिन्दुः ।
जलावगाढस्य वनद्विपस्य तीक्ष्ण विषाणाग्रमिवावशिष्टम् ॥ ६॥

विदूषकः----भो, एदं अम्हाणं गेहू । वड्ढमाणअ, वड्ढमाणअ ! उग्घाटेहि दुआरअं । [ भोः, इदमस्माकं गेहम् । वर्धमानक, वर्धमानक ! उद्धादय द्वारम् ।]

 चेटः-अज्जामित्तेअस्स शुलशंजोए शुणीअदि । आगदे अज्जचालुदते । ता जाव दुआलअं शे उग्घाटेमि । ( तथा कृत्वा ) अज्ज ! वंदामि । मित्तेअ ! तुम पि वदामि । एत्थ वित्थिण्णे आशणे णिशी-


आपणमध्यरथ्याविभागेषु कुक्कुरा अपि सुप्ताः । ओदरदि अवतरति । अस्वाभिमुखं मातीत्यर्थः । असाविति । विषाणाग्रं दन्ताग्रम् ॥ ६ ॥ संयोगः समवधानम् ।


| टिप्प०-१. मृदुगिरः कोमलकण्ठस्वरस्य तस्य रेभिलस्य तमिदानीं श्रुतं स्वरसंक्रमं स्वराणां निषादर्षभगान्धारादिस्वराणां क्रममारोहावरोहरूपम् । सर्व द्वितीयान्तानां शृण्वन्’ इत्यनेनान्वयः । श्लिष्टं गीताक्षरैरभिन्नतया श्रूयमाणम् । तन्त्री वीणा, तस्याश्च स्वरं श्रुण्वन्नित्याशयः । वर्णानामक्षराणां मूर्च्छना । यथा कुटुम्बिन; सर्व एकीभूता भवन्ति, तथा स्वराणां संदोहो मूर्छनेत्यभिधीयते । तस्या अन्तरगतं मध्यगतम् , तारमुच्चम् , विरामे समाप्तौ, मृदुम् । हेला रागस्यारोहावरोहयोरनौचित्यम् , तत्र संयमितं नियमितम् , अनौचित्यान्निवृत्तमिति भावः । पुनश्च ललितं रागेषु द्विरुच्चारितं द्विखिरुरुक्तं गीतं

शृण्वन्नित्वाशयः ।