चेटः- अज्जमित्तेअ ! तधा वि धोइश्शं । ( तथा कृत्वा) अज्जमित्तेअ! एदं तं शुवण्णभंडअं मम दिवा, तुह लत्तिं च । ता गेण्ह । [ आर्यमैत्रेय ! तथापि धाविष्यामि । आर्यमैत्रेय ! एतत्तत्सुवर्णभाण्डं मम दिवा, तव रात्रौ च, तद्गृहाण । ] ( इति दत्त्वा निष्क्रान्तः )
विदूषकः-( गृहीत्वा ) अज्ज वि एवं चिट्ठदि । किं एत्थ उज्जइणीए चोरो वि णत्थि, जो एदं दासीए पुत्तं णिद्दाचोरं ण अवहरदि । भो वअस्स ! अव्भंतरचतुस्सालअं पवेसआमि णं । [ अद्याप्येतत्तिष्ठति । किमत्रोज्जयिन्यां चौरोऽपि नास्ति, य एतं दास्याःपुत्रं निद्राचौरं नापहरति । भो वयस्य ! अभ्यन्तरचतुःशालकं प्रवेशयाम्ये[१]नम् ।
चारुदत्तः-
अलं चतुःशालमिमं प्रवेश्य प्रकाश[२]नारीधृत एष यस्मात् । तस्मात्स्वयं धारय विप्र ! तावद्यावन्न तस्याः खलु भोः समर्प्यते ७ |
( निद्रां नाटयन्, 'तं तस्य स्वरसंक्रमम्[३]म्-'(३॥५) इति पुनः पठति )
विदूषकः- अवि णिद्दाअदि भवं १ । [ अपि निद्राति भवान् ? । }
चारुदत्तः- अथ किम् ।।
इयं हि निद्रा नयनावलम्बिनी ललाटदेशदुसर्पतीव माम् ।। |
विदूषकः- ता सुवेम्ह । [ तत्स्वपिवः । ] ( नाट्येन स्वपिति )
( ततः प्रविशति शर्विलकः )
देमि ददामि ( १ ) । कवाटमुद्धाट्यावकाशं बिभरामीत्यर्थः (?) ॥ अलमिति । प्रकाशनारी वेश्या ॥ ७ ॥ इयमिति । मनुष्यसत्त्वं नृसत्ता. । मनुष्यमिति
टिप्प-1 । 2 ।
३ । 4 निशीथसमये ।