पुटमेतत् सुपुष्टितम्
८३
तृतीयोऽङ्कः

 शर्विलकः--

कृत्वा शरीरपरिणाहसुखप्रवेशं
शिक्षाबलेन च बलेन च कर्ममार्ग[१]म् ।
गच्छामि भूमिपरिसर्पणधृष्टपार्श्वो
निर्मुच्यमान इव जीर्णतनुर्भुजङ्गः ॥ ९ ॥

( नभोऽवलोक्य सहर्षम् ) अये, कथमस्तमुपगच्छति स भगवान्मृगाङ्कः ।

तथा हि,---

[२]नृपतिपुरुषशङ्कितप्रचारं परगृहदूषण निश्चितैकवीरम् ।
घनपटलतमो निरुद्धतारा रजनिरियं जननीव संवृणोति ॥ १० ॥

वृक्षवाटिकापरिसरे संधिं कृत्वा प्रविष्टोऽस्मि मध्यमकम् । तद्याव- दिदानीं चतुःशालकमपि दूषयामि । भोः,

कामं नीचमिदं वदन्तु पुरुषाः स्वप्ने च यद्वर्धते
विश्वस्तेषु च वञ्चनापरिभवश्चौर्यं न शार्यं हि त्तत् ।
स्वाधीना वचनीयतापि हि वरं बद्धो न सेवाञ्जलि-
र्मार्गो ह्येष नरेन्द्रसौप्तिकवधे पूर्व कृतो द्रौणिना ॥ ११ ॥

तत्कस्मिन्नुद्देशे संधिमुत्पादयामि ।।

देशः को नु जलविसेकशिथिलो यस्मिन्न शब्दो भवे-।
द्भित्तीनां च न दर्शनान्तरगतः संधिः करालो भवेत् ।
क्षारक्षीणतया च लोष्टककृशं जीर्णं क्व हर्म्यं भवे- ।
त्कस्मिन्स्त्रीजनदर्शनं च न भवेत्स्यादर्थसिद्धिश्च मे ॥ १२ ॥


थावत् ॥ ८ ॥ कृत्वेति ।। कर्ममार्गं संधिम् । यथा जीर्णतनुः सर्पः मुच्यमान- कञ्चुको गच्छति ॥ ५ ॥ नृपतीति । पटलं वृन्दं रोगभेदश्च । तारानक्षत्रमक्ष्णः कनीनिका च ॥१०॥ काममिति । अश्वत्थाम्ना पाण्डवपक्षपातिनो राजानो रात्रौ संधिं कृत्वा मारिताः । सौप्तिकमिति भावक्तान्तादध्यात्मदित्वाट्ठञ् ॥ ११ ॥ देश


पाठा०-----१ घनतिमिरनिरुद्धसर्वभावा


टिप्प,


  1. कर्मणश्चौर्यस्य मार्ग संधिम् चारुदत्तभवनपर्यन्तवृक्षवाटिकाप्राकार-भितौ संधि क्रत्वा चारुदत्तभवनं प्रविष्ट इति भावः
  2. चौराणां चन्द्रमा रिपुः
    इति वचनादिन्दोवस्तंगते तुष्टेन शर्विलकेणान्धकारजन्या जननीरूपकेणेदं वर्णनम्।