एतत् पृष्ठम् परिष्कृतम् अस्ति
८६
मृच्छकटिके

भविष्यति ? । (इतस्ततो दृष्ट्वा सलिलं गृहीत्वा क्षिपन्, संशङ्कम् ) मा तावद्भूमौ। पतच्छब्दमुत्पादयेत् । भवतु एवं तावत्। ( पृष्ठेन प्रतीक्ष्य कपाटमुद्धाव्य च) भवतु एवं तावत् । इदानीं परीक्षे किं लक्ष्यसुप्तम्, उत परमार्थ- सुप्तमिदं द्वयम् । ( त्रासयित्वा परीक्ष्य च ) अये, परमार्थसुप्तेनानेन भवितव्यम् । तथा हि,--

निःश्वासोऽस्य न शङ्कितः सुवेशदस्तु[१]ल्यान्तरं वर्तते
दृष्टिर्गाढनिमीलिता न विकला नाभ्यन्तरे चञ्चला ।
मात्रं स्रस्तशरीरसंधिशिथिलं शय्याप्रमाणाधिके ।
दीपं चापि न मर्षयेदभिमुख स्याल्लक्ष्यसुप्तं यदि ॥ १८ ॥

( समन्तादवलोक्य ) अये ! कथं मृदङ्गः, अयं दर्दुरः, अयं पणवः, इयमपि वीणा, एते वंशाः, अमी पुस्तकाः; कथं नाट्याचार्यस्य गृहमिदम् । अथवा भव[२]नप्रत्ययात्प्रविष्टोऽस्मि । तत्किं परमार्थदरिद्रोऽयम् , उत राजभयाचौरभयाद्वा भूमिष्ठं द्रव्यं धारयति । तन्ममापि नाम शर्वि- लकस्य भूमिष्ठं द्रव्यम् । भवतु बीज[३] प्रक्षिपामि । ( तथा कृत्वा ) निक्षिप्तं बीजं में क्वचित्स्फारीभवति । अये, परमार्थदरिद्रोऽयम् । भवतु गच्छामि ।।

 विदषकः--( उत्स्व[४]प्नायते ) भो वअस्स ! संधी विअ दिज्जदि, चोरै विअ पेक्खामि, तो गेण्हदु भई भवं सुवण्णभंडअं । [ भो वयस्य !


॥ १७ ॥ 'प्रतीक्ष्य' इत्यत्र 'प्रतीच्छय' इति पाठो दृश्यते । तच्च प्रतीच्छाग्रहणं कृवेत्यत्रार्थे णिचि समासे क्वाप्रत्यये त्यपि रूपम् । लक्ष्य सुप्तं व्याज सुप्तम् । निःश्वास इति । तुल्यमविषयमन्तरसन्तरालो यथा स्यादेवं वर्तत ।


पाठ०-१ स्वान्तरं वर्तते.


टिप्प०-- 1.भवनमिदं महत् , अतोऽत्र धनमपि भूरित्, स्यादिति विश्वासात् । । अभिमश्रितो 2. बीजबिशेषोऽन्तर्धनसहितभूतले क्षिप्तो बहुली भवति इति चौरशास्त्र-

प्रसिद्धिः । 3 सान्द्रनिद्रितो जनो यत्र जपत्याक्रोशति हसति स उत्स्वप्नः स्वप्नविशेषः ।


  1. 1
  2. 2
  3. 3