पृष्ठम्:मृच्छकटिकम्.pdf/९८

पुटमेतत् सुपुष्टितम्
९०
मृच्छकटिके

 विदुषकः----आः दासीए धीए ! किं भणासि-दुदिअं विअ हुआरअं उग्घाडिदं’ त्ति ? । भो वअस्स चारुदत्त ! उट्ठेहि उट्ठेहि । अम्हाणं गेहे संधिं दइअ चोरो णिक्कंतो । [ आ दास्याःपुत्रिके ! किं भणसि--‘द्वितीयमिव द्वारमनुद्धाटितम्' इति ? । भो वयस्य चारुदत्त ! उत्तिष्ठोत्तिष्ठ, अस्माकं गेहे संधिं दत्वा चौरो निष्क्रान्तः ।]

 चारुदत्तः----भवतु, भोः ! अलं परिहासेन ।

 विदूषकः----भो ! ण परिहासो । पेक्खदु भवं । [ भोः ! न परि- हासः, प्रेक्षतां भवान् ।]

 चारुदत्तः--कस्मिन्नुद्देशे ? ।।

 विदूषकः -- भो ! एसो । [भोः ! एषः।]

 चारुदत्तः---( विलोक्य ) अहो, दर्शनीयोऽयं संधिः-

उपरितलनिपातितेष्टकीऽयं
शिरसि तनुर्विपुलश्च मध्यदेशे।
असदृशजनसंप्रयोगभीरो ।
र्हृदयमिव स्फुटितं महागृहस्य ॥ २२ ॥

कथमस्मिन्नपि कर्मणि कुशलता ?।

 विदूषकः---भो वअस्स ! अअं संधी दुवेहिं ज्जेव दिण्णो भवेआदु आगंतुएण, सिक्खिदुकामेण वा । अण्णधा इध उज्जइणीए को अम्हाणं घरविहवं ण जाणादि ।। [ भो वयस्य ! एष संधिद्वाभ्यामेव दत्तो भवेत् -अथवाऽऽगन्तुकेन, शिक्षितुकामेन वा । अन्यथात्रोज्जयिन्यां कोऽस्माकं गृहविभवं न जानाति ? ।]

 चारुदत्तः

वैदश्येन कृती भवेन्मम गृहे व्यापारमभ्यस्यता
नासौ वेदितवान् धनैर्विरहितं विस्त्रब्धसुप्तं जनम् ।।


येत्यर्थः ।। उपरीति । उपरिभागे तलभागे च विनिपातितः आकृष्टा इष्टका यत्र । ‘उपरितन-' इति पाठ उपरितनी उपरिभत्र । शेषं तुल्यम् ॥ २१ ॥ वैदेश्येनेति ॥ २३ ॥ णिक्वामिस्सं निष्कामयिष्यामि । बहिः करिष्यामीति ।