पुटमेतत् सुपुष्टितम्
७९
तृतीयोऽङ्कः

दृष्ट्वा प्रा़्ङ्महतीं निवासरचनामस्माकमाशान्वितः
संधिच्छेदनखिन्न एव सुचिरं पश्चान्निराशो गतः ॥ २३ ॥

[१]ततः सुहृद्य्भ्यः किमसौ कथयिष्यति तपस्वी---‘[२]सार्थवाहसुतस्य गृहं प्रविश्य न किंचिन्मया समासादितम्' इति ? ।

 विदूषकः---भो ! कधं तं ज्जेव चोरहदअं अणुसोचसि ? । तेण चिंतिदं महंतं एदं गेहं । इदो रअणभंडअं सुअण्णभंडअं वा णिकामिस्सं । (स्मृत्वा, सविषादमात्मगतम्) कहिं ते सुवण्णभंडअं । ( पुनरनुस्मृत्ये, प्रकाशम् ) भो वअस्स ! तुं सव्व्वकालं भणासि-'मुक्खो मित्तेअओ, अपंडिदो मित्तेअओ' त्ति । सुट्ठु मए किदं तं सुवण्णभंडअं भवदो हत्थे समष्पअंतेण । अण्णधा दासीए पुत्तेण अवहिदं भवे । [ भोः ! कथं तमेव चौरहतकमनुशोचसि ? । तेन चिन्तितं महदेतद्गृहम् । इतो रत्नभाण्ड़ं सुवर्णभाण्डं वा निष्क्रामयिष्यामि । कुत्र तत्सुवर्णभाण्डम् । भो वयस्य ! त्वं सर्वकालं भणसि-‘मूर्खो मैत्रेयः, अपण्डितो मैत्रेयः' इति । सुष्टु मया कृतं तत्सुवर्णभाण्डं भवती हस्ते समर्पयता । अन्यथा दास्याःपुत्रेणापहृतं भवेत् ।

 चारुदत्तः -- अलं परिहासेन ।

 विदूषकः–भो ! जह णाम अहं मुक्खो ता किं परिहासस्स वि देशआलं ण जाणामि १ । [ भो; ! यथा नामाहं मूर्खस्तत्किं परिहासस्यापि देशकालं न जानामि ? । ।

 चारुदत्तः---कस्यां वेलायाम् ? ।।

 विदूषकः-- भो ! जदा तुमं मए भणिदोसि---‘शीदलो दे अग्गहत्थो' । [ भोः ! यदा त्वं मया भणितोऽसि-शीतलस्तेऽग्रहस्तः' ।


| टिप्प६---1 । 2


  1. यतो रिक्तहस्त एव गतस्तस्मादिति भावः
  2. चारुदत्तपितुः सागरदत्तस्य । ‘सार्थवाहसुतस्य' इत्यनेन महाधनिकपुत्रत्वमावेद्यते ।