पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/17

पुटमेतत् सुपुष्टितम्

२४

मेघसन्देशे स्व्याख्ये
प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान्

पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां

शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥

प्राप्येति । उदयनकथाकोविदग्रामवृद्धान् । उदयनो वत्सराजः, तस्य महान्त्यद्भुतानि कर्माणि विद्यन्ते, तत्कथापण्डितग्रामवृद्धानिति । पूर्वोद्दिष्टां मा च भूरुज्जयिन्या इति पूर्वोद्दिष्टाम् । विशालाम्, उज्जयिन्या विशालेति नामापि । ‘विशालोज्जयिनी समे’त्यमरः । उज्जयिन्याः स्वर्गसाम्यं पौराणां देवसाधर्म्यं चाभिप्रेत्याह – स्वल्पीभूत इति । सुचरितफले सुचरितस्य स्वर्गाख्ये फले । गां भूमिम् । अयमभिप्रायः -– स्वर्गिणः स्वपुण्यफले सकलस्वर्गोपभोगे स्वल्पावशिष्टे सत्यस्मात् फलोपभोगात् पुण्यानि क्षीयन्ते, सकलस्वर्गोपभोगोऽपि दुर्लभ इति मत्वा शेषैः स्वकीयैः पुण्यैर्भूमौ स्वपुण्यानुरूपं स्वर्गैकखण्डं यदि कुर्युस्तदिव विराजमानामित्यर्थः । ननु "सर्ववर्णानां स्वधर्मानुष्ठाने परम्परिमितं सुखं, ततः परिवृत्तौ कर्मफलशेषेण जातिं रूपं वर्णं बलं मेधां प्रज्ञां द्रव्याणि धर्मानुष्ठानमिति प्रतिपद्यत" इत्यापस्तम्बवचनात् प्राणिनः कर्मशेषयुक्ता एव जायन्त इति प्रतीयते । तस्मादयमर्थः किमित्युपेक्षित इति । एतत्पक्षाश्रयणे विशालायाः समुत्कर्षो न स्यात्, कर्मशेषयोगेन जननस्य सर्वप्राणिसाधारणत्वादित्यलं विस्तरेण ॥

दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानां

प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः

सिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१ ॥

दीर्घीकृर्वन्निति । सारसकूजितस्य दीर्घीभावो वातानुधावनेन । स्फुटितकमलामोदमैत्रीकषायः विकसितकमलपरिमलसम्पर्कसुरभिः ।

पूर्वसन्देशः ।

२५


"रागद्रव्ये काषायोऽस्त्री निर्यासे सौरभे रसे"

इति यादवः । प्रार्थनाचाटुकारः प्रार्थनया प्रियवचनकारी । अयमत्र समाधिः – कृतापराधः सुभगः प्रियतमः प्रातरेत्य स्वप्रेयसीवचनस्यावसरमवितरन्नेव पटु मदकलं स्ववचनं दीर्घीकुर्वन् पराङ्गनापरिभोगसुरभिगन्धः प्रेयसीं मदीयमपराधं क्षमस्वेति प्रार्थयमानश्चाटुकारी तस्याः पादपतनादङ्गानुकूलः सुरतालाभजनितां ग्लानिं यथा हरति तथा सिप्रावात् इति ॥ ३१ ॥

जालोद्गीर्णैरुपचितवपुः केशसंस्कारधूपै-

र्बन्धुप्रीत्या भवनशिङ्खिभिर्दत्तनृत्योपहारः ।
हर्म्येष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथाः

पश्यन् लक्ष्मीं ललितवनितापादरागाङ्कितेषु ॥ ३२ ॥

जालेति । गवाक्षोद्वान्तैः केशसंस्कारधूपैः वनितानामिति शेषः । ललितवनितापादरागाङ्कितेष्विति वक्ष्यमाणत्वाद् वनितापदस्याप्रयोगः । कुसुमसुरभिष्वध्वखेदं नयेथाः पश्यन् लक्ष्मीमिति पाठः । श्रीविशालामित्युक्तत्वात् पश्यन् लक्ष्मीमित्युक्तम् । नीत्वा खेदमिति पाठे वक्ष्यमाणेन ‘पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य’ इत्यनेन सम्बन्धः ॥ ३२ ॥

भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः

पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डेश्वरस्य ।
धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-

स्तोयक्रीडाभिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥

भर्तुरिति । भर्तुः स्वामिनः कण्ठच्छविरिति कण्ठप्रभेति दृश्यमान इत्यर्थः । ईदृशः प्रयोगश्च दृश्यते –

"षण्ड इत्यन्यनारीभिः स्वस्त्रीभिर्धूर्त इत्यपि ।
शमीति साधुभिर्वीरैः साहसीति च ईक्ष्यते ॥"