हस्त इति । अनेन श्लोकेन शरद्धेमन्तशिशिरवसन्तग्रीष्मप्रावृषां षष्णामृतूनां लिङ्गभूतैरसाधारणैः पुष्पैरलकायां युगपदेव प्रवृत्तिरुक्ता । तद्यथा – हस्ते लीलाकमलमित्यत्र शरल्लिङ्गेन कमलेन शरत्कालस्य सन्निधिरुक्ता । अलकं वालकुन्दानुविद्धमित्यपपाठः । अलकशब्दस्य पुल्लिङ्गत्वात् । ‘अलकाश्चूर्णकुन्तला’ इत्यमरः । अलके बालकुन्दानुवेध इति पाठः । अस्मिन् पाठे रीतिभङ्गश्च न भवति । कुन्देन हेमन्तसंनिधिरुक्तः । ननु
इत्यत्र वसन्तात् प्राचीनस्य शिशिरस्य लिङ्गं कुन्दमिति प्रतीयते । कथं हेमन्तस्य लिङ्गमित्युक्तम् । उच्यते । हेमन्तशिशिरयोर्द्वयोरपि लिङ्गं कुन्दम् । हेमन्ते प्रादुर्भवति शिशिरे प्रौढीभवतीति विशेषः । अत एव बालकुन्दानुवेध इति बालशब्दः प्रयुक्तः । नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीरिति सप्तम्यन्तः पाठः । आनने कान्तिलोध्रप्रसवरजसा पाण्डुतां नीतेत्यर्थः । लोध्रपुष्पं हि शिशिरस्य लिङ्गम् । तथा माघकाव्ये शिशिरवर्णने – "अभिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यत लोध्ररजश्चयः" (स० ६. श्लो० ६४) इत्यादि । चूडापाशे नबकूरवकं, चूडापाआशे शिखाकलापे । ‘शिखा चूडा केशपाश’ इत्यमरः ।[१] नवकुरवकं हि वसन्तलिङ्गम् । उक्तं च ‘अग्रे स्त्रीनखपाटलं कुरवकम्’ इति । चारु कर्णे शिरीषं, शिरीषं हि ग्रीष्मस्य लिङ्गम् । उक्तं च –
इति । त्वदुपगमजमित्यनेन नीपस्य वर्षालिङ्गत्वं प्रतीयते । वधूनां स्त्रीणाम् । ’वधूर्जाया स्नुषा चे’त्यमरः । त्वदुपगमजं यत्र नीपमिति मेघसंबन्ध उक्तः ॥२॥
–-
४५
ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्रीसहायाः ।
आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं
यस्यामिति । सितमणिः स्फटिकमणिः । स्फटिकमणीनां प्रसादवत्तया रात्रिषु प्रतिबिम्बातिशयः सम्भवतीत्पनुसन्धेयम् । आसेवन्ते आदृत्य सेवन्ते । त्वद्गम्भीरध्वनिषु अनेन मेघम्बन्ध उक्तः । पुष्करेषु वाद्यभाण्डमुखेषु ।
इति भट्टहलायुघः । आहतेषु वाद्यमानेषु ॥३॥
र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः॥]
नीवीबन्धोच्छ्वासितशिथिलं यत्र बिम्बाधराणां
क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
विद्युद्दीप्रानभिमुखमपि प्राप्य रत्नप्रदीपान्
नीवीति । बिम्बाधराणां बिम्बफलमिवाधरो यासां ता विम्बाधरा इति स्त्रीणां नामधेयम् । अनिभृतकरेषु व्याप्रियमाणकरेषु । आक्षिपत्सु अहितस्तु । विद्युद्दीप्रानिति पाठः । त्वदीयविद्युत्तुल्यानि-