पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/30

पुटमेतत् सुपुष्टितम्

संस्कारद्रव्यम् | तथा सप्तशत्यां-

[१]" दोहळिअमप्पणो किं ण मग्गसे मग्गसे कुरवअस्स ।
एअं तुह सुहग ! हसइ वळिआणणपङ्कअं जाआ" ॥

अयमभिप्रायः – अहं कृतयाच्ञाञ्जलिस्तव सख्या वामपादाभिताडनं दोहलव्याजेन यथाभिलषामि, तथायं चलकिसलयो रक्ताशाकः तस्या वामपादाभिताडनं दोहलव्याजेनाभिलषतीति (न?) तथा कान्तः केसरद्रुमोऽपि दोहलच्छद्मना तस्या वदनमदिरां काङ्क्षतीति च ॥११॥

तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-

र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे

यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद् वः ॥

तन्मध्ये गृहमध्ये । स्फटिकफलका स्फटिकमयी निवासफलका यस्याः । स्फटिकफलकोपादानं मयूरस्य शीतप्रियत्वापेक्षया कृतम् । अनतिप्रौढवंशप्रकाशैः तरुणवेणुकादण्डसमानवर्णैः । शिञ्जावलयसुभगौरिति ।[२] शिञ्जा शिञ्जितं, शिञ्जावन्ति वलयानि शिञ्जावलयानि । शाखावृक्षवत् समासः । शिञ्जद्वलयसुभगैरिति पाठे, ‘शिञ्जि अव्यक्ते शब्दे’ इत्ययं धातुरात्मनेपदी । तस्मात् परस्मैपदं न भवति । नीलकण्ठः सुहृद् वः इति मेघसंबन्ध उक्तः ॥१२॥

एभिः साधो ! हृदयनिहितैर्लक्षणैर्लक्षयेथा

द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम्॥

एभिरिति । साधो ! विद्वन् ! लक्षणैः चिह्नैः । लक्ष्येथाः पश्येरित्यर्थः । शङ्खपद्मौ शङ्खपद्माख्यौ निधिविशेषौ । –-

उत्तरसन्देशः

५१


"निधिर्ना शेवधिर्भेदाः शङ्खपद्मादयो निधेः"

इत्यमरः । लक्षयतेः कर्मादर्शनाल्लक्षयेस्तदिति केचित् पठन्ति । तस्मिन् पाठे तदिति पूर्वोक्तमगारं परामृश्यते । इदानीमात्मीयं तद्भवनं संस्मृत्य विषण्ण आह –क्षामच्छायमिति, क्षामकान्ति । अभिख्यां शोभाम् ॥१३॥

गत्वा सद्यः कलभतनुतां शीघ्रसंपातहेतोः

क्रीडाशैले प्रथमकथिते रत्नसानौ निषण्णः ।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं

खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम्॥१४॥

गत्वेति । श्रीघ्रसंपातहेतोः । प्रथमकथिते ‘तस्यास्तीरे विहितशिखर’ इति पूर्वोक्ते । रत्नसानौ, इदं विशेषणं सौदामनीदर्शनेऽपि रत्नप्रभेति तस्या बुद्धिजननाय कृतम् । विद्युदुन्मेषदृष्टिम् । विद्युदुन्मेषो विद्युत्स्फुरणं तदेव दृष्टिरिति विद्युदुन्मेषदृष्टिः ॥

इदानीं स्वप्रेयस्या लक्षणान्याह –

तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी

मध्येक्षामा चकितहरिणीप्रेक्षिणी निम्ननाभिः ।
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र स्याद् युवतीविषये सृष्टिराद्यैव धातुः ॥

तन्वीति । श्यामा श्यामवर्णा, हरितवर्णेत्यर्थः । अस्यार्थस्यानुकूलमेव वक्ष्यति – ‘श्यामास्वङ्गमि’ति । यद्वा-

"श्यामा यौवनमध्यस्था प्रौढा निष्क्रान्तयौवना"

इत्युत्पलमालायाम् । अस्यार्थस्यानुकूलं द्योतकं युवतिविषय इति पदम् । शिखरिदशनेति पाठः । शिखरीणि कोटिमन्ति दशनानि यस्याः सा शिखरिदशना । तथा सामुद्रे –

" स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासामासां पादे जगत् सर्वम् ॥"
  1. दोहदमात्मनः किं न मृगचसे मृगयसे कुरवकस्य |
    एवं तव सुभगा हसति वलिताननपङ्कजं जाया ॥
  2. १. 'ति वामे शि' क. पाठः.