पृष्ठम्:मेघसन्देशः - दक्षिणावर्तनाथः - १९१९.djvu/32

पुटमेतत् सुपुष्टितम्

सादृश्यम्’ इत्यजयः । उक्तं ‘सादृश्यप्रतिकृतिदर्शनैः प्रियाया’ इति । विरहतनु विरहेण तनुसंस्थानम् । इदं विशेषणं सादृश्यशब्दस्यालेख्यवाचित्वे घटते । भावगम्यं, विरहात् प्राक् तादृशस्य संप्रत्येवमन्यथाभावः संभवतीत्युत्प्रेक्षागम्यमित्यर्थः । शारिकां, शारिकेति व्यक्तवाक् कापि चटकविशेषस्त्री । ‘वाचाला मुखरा शारी’ इति यादवः । पञ्जरस्थां, विलालादिभयेन पञ्जरस्थामित्यर्थः । भर्तुः स्मरसीति ‘अधीगर्थदयेशां कर्मणि’ (२.३.५२) इति कर्मणि षष्ठी । स्मरसि उत्कण्ठस इत्यर्थः । गिरिके !, मार्जारादिसन्निघानात् पञ्जराभ्यन्तरं प्रविश्य बालमूषिकेव बिभेतीति बालमूषिकानामान्तरेण शारिकाया उपालम्भपूर्वं संबोधनम् । ‘गिरिका बालमूषिका’ इत्यमरः ॥ १८॥


उत्सङ्गे वा मलिनवसने सौम्य ! निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथञ्चिद्

भूयो भूयः स्वयमधिकृतां मूर्च्छनां विस्मरन्ती॥

उत्सङ्ग इति । मद्गोत्राङ्कं मन्नामधेयचिह्नम् । सारयित्वा करेण परामृश्य । स्वयमधिकृताम् आत्मप्रस्तुताम् । कथञ्चित् स्वयमधिकृता मित्यन्वयः । मूर्छनां सप्तस्वारक्रमस्थापनाम् ।

"क्रमयुक्ताः स्वराः सप्त मूर्छना परिकीर्तिता" ॥

इति[] भरते ॥१९॥

शेषान् मासान् विरहदिवसस्थापितस्यावधेर्वा

विन्यस्यन्ती भुवि गणनया देहलीमुक्तपुष्पैः ।
मत्संयोगं वा हृदयनिहितारम्भमास्वादयन्ती

प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः॥२०॥

शेषानिति । शेषान् गतशेषान् । अवधेः शापान्तावधेरित्यर्थः । देहलीमुक्तपुष्पैः, गृहद्वारयन्त्रस्य तिरश्चीनफलकं देहली । सा च बहिर्द्वारदेहली, तत्रैव तस्याः प्रियतमालोकनोत्सुकतयावस्थानात् ॥२०॥ –-

उत्तरसन्देशः

५५


सव्यापारमहनि न तथा पीडयेन्मद्वियोगः

शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे

तामुन्निद्रां विरहशयनां सद्मवातायनस्थः॥

सव्यापारामिति । सव्यापारां सविनोदाम् । रात्रौ निर्विनोदां तव सखीं यथा विप्रयोगः पीडयति, अहनि सव्यापारां न तथा पीडयेदित्यर्थः सद्मवातायनस्थ इति पाठः । भवनवातायनस्थ इत्यर्थः । निशीथे साध्वीमत एवोन्निद्रां तां मत्सन्देशैः सुखयितुमलं पश्येत्यर्थः ॥२१॥ कीदृशीं तां सुखयामीत्यपेक्षायामाह –

आधिक्षामां विरहशयने संनिषण्णैकपार्श्वां

प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या

तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम्॥२२॥

आधिक्षामामिति । प्राचीमूले तनुमिवेति, प्राचीमूलग्रहणं दिने दिने क्षीयमाणत्वं सूचयितुं कृतम् । तनुं शरीरम् । कलामात्रशेषां, मात्रशब्दोऽवधारणे । क्षण इवेति पाठः । या यज्जातीया तामेव तज्जातीयामेव ॥२२॥

निश्श्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं

शुद्धस्नानात् परुषमलकं नूनमागण्डलम्बम् ।
मत्संभोगः कथमुपनमेत् स्वप्नजोऽपीति निद्रा-

माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम्॥

निःश्वासेनेति । विक्षिपन्तीं चलयन्तीम् । शुद्धस्नानाद् गन्धामलकादिरहितस्नानात् । परुषमस्निग्धम् । आगण्डलम्बम् गण्डावधि लम्बमानामि-

  1. १. 'ति निघण्टुः ॥' ख. पाठः.