पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/११३

पुटमेतत् सुपुष्टितम्
( १११ )
पञ्चमः सर्गः ।

  वधलज्जितः कथमस्त्रग्रहणपरः स्यामिति चेत्तत्राह--

  अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभूः प्रहरन्नपि त्वम् ।
  तस्मादुपच्छन्दयति प्रयोज्यं मयि त्वया न प्रतिषेधरौ[१]क्ष्यम् ५८

 अलमिति ॥ किं च । मां प्रति ह्रिया प्रहारनिमित्तयालम् । कुतः । यद्यतो हेतोस्त्वं मां प्रहरन्नपि मुहूर्तं दयापरः कृपालुरभूः । तस्मादुपच्छन्दयति प्रार्थयमाने मयि त्वया । प्रतिषेधः परिहारः । स एव रौक्ष्यं पारुष्यम् । तन्न प्रयोज्यं न कर्तव्यम् ॥

  तथेत्युपस्पृश्य पयः पवित्रं सोमोद्भवायाः सरितो नृसोमः ।
  उदङ्मुखः सोऽस्त्र[२]विदस्त्रमन्त्रं जग्राह तस्मान्नि[३]गृहीतशापात् ॥ ५९

 तथेति ॥ ना सोमश्चन्द्र इव नृसोमः ॥ उपमितसमासः ॥ "सोम ओषधिचन्द्रयोः" इति शाश्वतः ॥ पुरुषश्रेष्ठ इत्यर्थः । अस्त्रविदस्त्रज्ञः सोऽजस्तथेति सोम उद्भवो यस्याः सा तस्याः सोमोद्भवायाः सरितो नर्मदायाः ॥ "रेवा तु नर्मदा सोमोद्भवा मेखलकन्यका" इत्यमरः ॥ पवित्रं पय उपस्पृश्य पीत्वा । आचम्येत्यर्थः । उदङ्मुखः सन्निगृहीतशापान्निवर्तितशापात् । उपकृतादित्यर्थः । तस्मात्प्रियंवदादस्त्रमन्त्रं जग्राह ॥

  एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यमचिन्त्यहेतु ।
  एको ययौ चैत्ररथप्रदेशान्सौराज्यरम्यानपरो विदर्भान् ॥ ६० ॥

 एवमिति ॥ एवमध्वनि मार्गे दैवयोगाद्दैववशादचिन्त्यहेत्वनिर्धार्यहेतुकं सख्यं सखित्वम् ॥ "सख्युर्यः" इति यप्रत्ययः ॥ आसेदुषोः प्राप्तवतोस्तयोर्मध्य एको गन्धर्वश्चैत्ररथस्य कुबेरोद्यानस्य प्रदेशान् ॥ "अस्योद्यानं चैत्ररथम्" इत्यमरः ॥ अपरोऽजः सौराज्येन राजन्वत्तया रम्यान्विदर्भान्विदर्भदेशान्ययौ ॥

  तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः ।
  प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली ॥ ६१ ॥

 तमिति ॥ नगरस्योपकण्ठे समीपे तस्थिवांसं स्थितं तमजं तस्याजस्यागमेनागमनेनारूढ उत्पन्नो गुरुः प्रहर्षो यस्य स क्रथकैशिकेन्द्रो विदर्भराजः । प्रवृद्धोर्मिरूर्मिमाली समुद्रश्चन्द्रमिव । प्रत्युज्जगाम ॥

  प्रवेश्य चैनं पुरमग्रयायी नीचैस्तथोपाचरदर्पितश्रीः ।
  मेने यथा तत्र जनः स[४]मेतो वैदर्भमार्गन्तुमजं गृहेशम् ॥ ६२ ॥


  1. रूक्षम्.
  2. अस्त्रविदः.
  3. विगृहीतशासी.
  4. समस्तः.