पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७३

पुटमेतत् सुपुष्टितम्
( १७१ )
अष्टमः सर्गः ।

न युक्तमित्यर्थः । अतएवात्मकृतेन स्वदुश्चेष्टितेन निवृत्तिरूपेण प्रबलामधिकां वेदनां दुःखं सहतां क्षमताम् ॥ स्वयंकृतापराधेषु सहिष्णुतैव शरणमिति भावः ॥

  सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते ।
  [१]थ चास्तमिता त्वमात्मना धिगिमां देहभृतामसारताम् ॥ ५१

 सुरतेति ॥ सुरतश्रमेण संभृतो जनितः स्वेदलवोद्गमोऽपि ते तव मुखे ध्रियते वर्तते । अथ च त्वमात्मना स्वरूपेणास्तं नाशमिता प्राप्ता । अतः कारणाद्देहभृतां प्राणिनामिमां प्रत्यक्षामसारतामस्थिरतां धिक् ॥

  मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि माम् ।
  ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः ॥ ५२ ॥

 मनसेति ॥ मया मनसापि तव विप्रियं न कृतपूर्वम् । पूर्वं न कृतमित्यर्थः ॥ सुप्सुपेति समासः ॥ किं केन निमित्तेन मां जहासि त्यजसि । नन्वहं क्षितेः शब्द पतिः शब्दत एव पतिः । न त्वर्थत इत्यर्थः । भावनिबन्धनाभिप्रायनिबन्धना स्वभावहेतुका मे रतिः प्रेम तु त्वय्येव । अस्तीति शेषः ॥

  कु[२]सुमोत्खचितान्वली[३]भृतश्चलयन्भृङ्गरुचस्तवालकान् ।
  करभोरु करोति मारुतस्त्वदुपावर्तनशङ्कि मे मनः ॥ ५३ ॥

 कुसुमेति ॥ कुसुमैरुत्खचितानुत्कर्षेण रचितान्वलीभृतो भङ्गीयुक्तान् । कुटिलानित्यर्थः । भृङ्गरुचो नीलांस्तवालकांश्चलयन्कम्पयन्मारुतः । हे करभोरु करभसदृशोरु ॥ "मणिबन्धादाकनिष्ठं करस्य करभो बहिः" इत्यमरः ॥ मे मनस्त्वदुपावर्तनशङ्कि तव पुनरागमने शङ्कावत्करोति । त्वदुज्जीवने शङ्कां कारयतीत्यर्थः ॥

  तदपोहितुमर्हसि प्रिये प्रतिबोधेन विषादमाशु मे ।
  ज्वलितेन गुहागतं तमस्तुहिनाद्रेखि नक्तमोषधिः ॥ ५४ ॥

 तदिति ॥ हे प्रिये, तत्तस्मात्कारणादाशु मे विषादं दुःखम् । नक्तं रात्रावोषधिस्तृणज्योतिराख्या लता ज्वलितेन प्रकाशेन तुहिनाद्रेर्हिमाचलस्य गुहागतं तमोऽन्धकारमिव । प्रतिबोधेन ज्ञानेनापोहितुं निरसितुमर्हसि ॥

  इदमुच्छ्वसितालकं मुखं तव विश्रान्तकथं दुनोति माम् ।
  निशि सुप्तमिवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनम् ॥ ५५ ॥

 इदमिति ॥ इदमुच्छ्वसितालकं चलितचूर्णकुन्तलं विश्रान्तकथं निवृत्तसंलापं


  1. अथवा.
  2. कुसुमोत्कचितान्; कुसुमोत्कलितान्.
  3. वलीमतः.