पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०५

पुटमेतत् सुपुष्टितम्
( २०३ )
नवमः सर्गः ।

न्तः । न पन्था इत्यपथम् ॥ “पथो विभाषा" इति वा समासान्तः । “अपथं नपुंसकम्" इति नपुंसकम् ॥ "अपन्थास्त्वपथं तुल्यम्" इसमरः ॥ तस्मिनपथेऽमार्गे पदमर्पयन्ति हि निक्षिपन्ति हि । प्रवर्तन्त इत्यर्थः ॥ वैतालीयं वृत्तम् ।।

  हा तातेति क्रन्दितमाकर्ण्य विषण्ण-
   स्तस्यान्विष्यन्वेत[१]सगूढं प्रभवं सः ।
  शल्यप्रोतं प्रेक्ष्य[२] सकुम्भं मुनिपुत्रं
   तापादन्तःशुल्य इवासीक्षितिपोऽपि ॥ ७५ ॥

 हा तातेति ॥ हेत्यार्तौ । तातो जनकः ॥ " हा विषादशुगर्तिषु” इति । "तातस्तु जनकः पिता" इति चामरः ॥ हा तातेति क्रन्दितं क्रोशनमाकर्ण्य । विषण्णो भग्नोत्साहः सन् । तस्य क्रन्दितस्य वेतसैर्गूढं छन्नम् । प्रभवत्यस्मादिति प्रभवः कारणम् । तमन्विष्यञ्छल्येन शरेण प्रोतं स्यूतम् । “शल्यं शङ्कौ शरे वंशे" इति विश्वः ॥ सकुम्भं मुनिपुत्रं प्रेक्ष्य स क्षितिपोऽपि तापाद्दुःखादन्तःशल्यं यस्य सोऽन्तःशल्य इवासीत् ॥ मत्तमयूरं वृत्तम् ॥

  तेनावतीर्य तुरगात्प्रथितान्वयेन
   पृष्टान्वयः स जलकुम्भनिषण्णदेहः।
  तस्मै द्विजेतरत[३]पस्विसुतं स्खलद्भि-
   रात्मानमक्षरपदैः कथयांबभूव ॥७६ ॥

 तेनेति ॥ प्रथितान्वयेन प्रख्यातवंशेन ॥ एतेन पापभीरुत्वं सूचितम् ।। तेन राज्ञा तुरगादवतीर्य पृष्टान्वयो ब्रह्महत्याशङ्कया पृष्टकुलः। जलकुम्भनिषण्णदेहः स मुनिपुत्रस्तस्मै राज्ञे स्खलद्भिः। अशक्तिवशादर्धोच्चारितैरित्यर्थः । अक्षरप्रायैः पदैरक्षरपदैरात्मानं द्विजेतरश्चासौ तपस्विसुतश्च तं द्विजेतरतपस्विसुतं कथयांबभूव ॥ न तावस्त्रैर्वणिक एवाहमस्मि किंतु करणः ॥ “वैश्यात्तु करणः शूद्रायाम्" इति याज्ञवल्क्यः ॥ कुतो ब्रह्महत्येत्यर्थः ॥ तथा च रामायणे-"ब्रह्महत्याकृतं पापं हृदयादपनीयताम् । न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा । शूद्रायामस्मि वैश्येन जातो जनपदाधिप" इति ।

  तच्चि[४]दितश्च[५] तमनुद्धृतशल्यमेव
   पित्रोः सकाशमवसन्नदृशोर्निनाय ।


  1. वेतसगूढमभवम्,
  2. वीक्ष्य.
  3. तपस्विसुतः.
  4. नोदितः.
  5. सः.