विद्धि चा[१]त्तबलमोजसा हरेरैश्वरं धनुरभाजि यत्त्वया ।
खातमूलमनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुममम्॥ ७६ ॥
विद्धीति॥ किंच । ऐश्वरं धनुर्हरेर्विष्णोरोजसा बलेनात्तबलं हृतसारं च विद्धि । यद्धनुस्त्वयाभाज्यभञ्जि ॥ "भञ्जेश्च चिणि" इति विभाषया नलोपः ॥ तथाहि । नदीरयैः खातमूलमवदारितपादं तटद्रुमं मृदुरप्यनिलः पातयति ॥ ततः शिशुरपि रौद्रं धनुरभाङ्क्षमिति मा गर्वीरिति भावः ॥
तन्मदीयमिदमायुधं ज्यया संगमय्य सशरं विकृष्यताम् ।
तिष्ठतु प्रधनमेवमप्यहं तुल्यबाहुतरसा जितस्त्वया ॥७७॥
तदिति ॥ तत्तस्मान्मदीयमिदमायुधं कार्मुकं ज्यया संगमय्य संयोज्य ॥ "ल्यपि लघुपूर्वात्" इति णेरयादेशः॥ सशरं यथा तथा त्वया विकृष्यताम् । प्रधनं रणस्तिष्ठतु । प्रधनं तावदास्तामित्यर्थः ॥ "प्रधनं मारणे रणे" इति विश्वः ॥ एवमपि मद्धनुःकर्षणेऽप्यहं तुल्यबाहुतरसा समबाहुबलेन ॥ "तरसी बलरंहसी" इत्यमरः ॥ त्वया जितः ॥
कातरोऽसि यदि वो[२]द्गतार्चिषा तर्जितः परशुधारया मम ।
ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतामभययाचनाञ्जलिः ॥७८॥
कातर इति ॥ यदि वोद्गतार्चिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि । वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थना ञ्जलिर्बध्यताम् ॥ "तौ युतावञ्जलिः पुमान्" इत्यमरः॥
एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः ।
तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥७९॥
एवमिति ॥ भीमदर्शने भार्गव एवमुक्तवति सति । राघवः स्मितेन हासेन विकम्पिताधरः सन् । तद्धनुग्रहणमेव समर्थमुचितमुत्तरं प्रत्यपद्यताङ्गीचकार ।
पूर्वेति॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन समागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत् ॥ तथाहि । नवाम्बुदः केवलो रिक्तोऽतिसुभगः । त्रिदशचापेनेन्द्रधनुषा लञ्छितश्चिह्नितः किं पुनः । सुभग एवेति भावः॥