पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२७३

पुटमेतत् सुपुष्टितम्
( २७१ )
त्रयोदशः सर्गः ।

दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेषणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः ॥ "सिन्धुः समुद्रे नद्यां च" इति विश्वः ॥ स्वयं पिबति पाययते च । तरंगाधरमिति शेषः ॥ "न पादभ्याङ्यम्-" इत्यादिना पिबतेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः । "गतिबुद्धिप्रत्यवसानार्थ-" इत्यादिना सिन्धूनां कर्मत्वम् ॥ दंपत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः ॥

  ससत्त्वमादाय नदीमुखाम्भः संमील[१]यन्तो विवृ[२]ताननत्वात् ।
  अमी शिरोभिस्तिमयः सरन्ध्रैरुर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ १० ॥

 ससत्त्वमिति ॥ अमी तिमयो मत्स्यविशेषाः ॥ तदुक्तम्-"अस्ति मत्स्यस्तिमिर्नाम शतयोजनमायतः" इति ॥ विवृताननत्वाद्व्यात्तमुखत्वाद्धेतोः ॥ आननविवृत्येत्यर्थः । ससत्त्वं मत्स्यादिप्राणिसहितं नदीमुखाम्भ आदाय संमीलयन्तश्चञ्चुपुटानि संघट्टयन्तः सन्तः सरन्ध्रैः शिरोभिर्जलप्रवाहानूर्ध्वं वितन्वन्ति ॥ जलयन्त्रक्रीडासमाधिर्व्यज्यते ॥

  मातंगनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
  कपोलसंसर्पितया य एषां व्रजन्ति कर्णक्षणचामरत्वम् ॥ ११ ॥

 मातंगेति ॥ सहसोत्पतद्भिर्मातंगनक्रैर्मातंगाकारैर्ग्राहैर्द्विधा भिन्नान्समुद्रफेनान्पश्य । ये फेना एषां जलमातंगनक्राणां कपोलेषु संसर्पितया संसर्पणेन हेतुना कर्णेषु क्षणं चामरत्वं व्रजन्ति ॥

  वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फू[३]र्जथुनिर्विशेषाः ।
  सूर्यांशुसंपर्कस[४]मृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः ॥ १२ ॥

 वेलेति ॥ वेलानिलाय । वेलानिलं पातुमित्यर्थः ॥ "क्रियार्थोपपद-" इत्यादिना चतुर्थी ॥ प्रसृता निर्गता महोर्मीणां विस्फूर्जथुरुद्रेकः ॥ "ट्वितोऽथुच्" इत्यथुच्प्रत्ययः ॥ तस्मान्निर्विशेषा दुर्ग्रहभेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥

  तवाधरस्पर्धिषु विद्रुमेषु पर्यस्तमेतत्सहसोर्मिवेगात् ।
  ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशा[५]दपक्रामति शङ्खयूथम् ॥ १३ ॥

 तवेति ॥ तवाधरस्पर्धिषु । अधरसदृशेष्वित्यर्थः । विद्रुमेषु प्रवालेषु सहसोर्मिवेगात्पर्यस्तं प्रोत्क्षिप्तमूर्ध्वाङ्कुरैर्विद्रुमप्ररोहैः प्रोतमुखं स्यूतवदनमेतच्छङ्खानां यूथं वृन्दं

कथंचित्क्लेशादपक्रामति । विलम्ब्यापसरतीत्यर्थः ॥


  1. संमीलयम्त्यः.
  2. विवृताननत्वम्.
  3. विस्फूजिति.
  4. विवृद्ध.
  5. कष्टात्.