एतत् पृष्ठम् परिष्कृतम् अस्ति
१५
वासनासहिता ।


वासनासहिता |

अपरोदाहरणम् |

अमलकमलराशेस्त्र्यंशपञ्चांशषष्टै स्त्रिनयनहरिसूर्या येन तुर्येण चार्या । गुरुपदमथ षड्भिः पूजितं शेषपद्मैः सकलकमलसङ्ख्यां क्षिप्रमाख्याहि तस्य ॥ २॥ न्यासः १/३ १/५ १/६ १/४ दृश्यं ६ | अत्रेष्टमेकं १ राशि प्रकल्प्य प्राग्वज्जातो राशिः १२० । शेषजात्युदाहरणम् | स्वार्ध प्रादात् प्रयागे, नवलचयुगलं योऽवशेषाच्च काश्यां शेषाङ्घ्रिं शुल्कहेतोः पथि दशमलवान् षट् च शेषाद् गयायान् । शिष्टा निष्कत्रिषष्टिर्निजगृहमनया तीर्थपान्थः प्रयात- स्तस्य द्रव्यप्रमाणं वद यदि भवता शेषजातिः श्रुताऽस्ति ॥ ३ ॥ न्यासः --- १/६ । १/३ । १/४ । १/५ । १/३० दृश्यं १ । यथोक्त्या लब्धं भृङ्गग्रमानं ८॒०।

अन्यदुदाहरणम्। कामिन्या हारत्याः सुरतकलहतो मौक्तिकानां त्रुटित्वा, भूमौ जातस्त्रिभागः शयनतलगतः पन्चमांशश्व दृष्टः । प्राप्तः षष्टः सुकेश्या, गणक ! दशमकः संगृहीतः प्रियेण, दृष्टं षट्कं च सूत्रे कथय कतिपयैमौक्तिकैरेष हारः || न्यागः – १/३ । १/५ । १/६ । १/१०, दृश्यम् ६ । अत्र यथोक्तया करणेन लब्धं सौक्तिकत्रमाणम् ३० १ पुनरन्यदुदहरणम् -

यूथार्ध सत्रिभागं वनविवरगतं कुञ्जराणां व दृष्टं षड्भागश्चैव नद्यां पिवति च सलिलं सप्तमांरोन मिश्रः । पद्मिन्यां चाष्टमांशः स्वनवमसहितः क्रीड़ते सानुरागो नागेन्द्रो हस्तिनीभिस्तिसृभिरनुगतः का भवेद्यूथसंख्या | न्यासः – (१/२ १/६ १/८)(१/३ १/७ १/९) दृश्यम् ४ एतेषां सवर्णनं कृत्वा द्वाभ्यामपवर्त्य जातम् १/३, ४/२१, ५/३६ पुनरेतेषां सवर्णनमङ्कै- रपवर्तितं जातम् २५१/२५२ इदमिष्टराशेर्विहीनितम् १/२५२ अनेन दृष्टगुणितेष्टे ४ भक्ते हस्तिसंख्याः १००८।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/२६&oldid=399231" इत्यस्माद् प्रतिप्राप्तम्