एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
वासनासहिता ।

 अत्रैव विज्ञानराजनप्तृबालकृष्णदैवज्ञैस्तु या, इ राशिमाने प्रकल्प्य यथोक्त्या राशो साधितौ, तत्र रूपदूचाल्प इष्टे द्वितीयालापो न घटत इति सुधोभिर्विभाव्यम् ।

 एवमेव* लक्ष्मीदासमिश्रा अपि '४इ, ग्रा, आस्यां राशी साधितवन्तस्तत्रापि रूपार्धल्प इष्टे द्वितीग्रालापो व्यभिचरतीति सर्वमिष्टविशाङ्गणितिकैस्वगन्तव्यम् । किमत्र लेखप्रचसेन ।


अथ गुणकर्म ।

गुणघ्नमूलोनयुतस्य राशेर्द्वष्टस्य युक्तस्य गुणार्धकृत्या ।
मूलं गुणार्धेन युतं विहीनं वर्गीकृतं प्रष्टुरभीष्टराशिः ॥५॥

यदा लवैश्वोनयुतः स राशिरेकेन भागोनयुतेन भक्ता ।

दृश्यं तथा मूलगुणं च ताभ्यां साध्यस्ततः प्रोक्तवदेव राशिः ॥ ६ ॥

 यो राशिः स्वमूलेन केनचिद्गुणितेन ऊनो दृष्टस्तस्य गुणार्धकृत्या युक्तस्य दृष्टस्य यत् एदं तद् गुणारर्धेन युक्तं कार्यं, यदि घुणघ्नमूलयुतो- दृष्टस्तर्हि हीनं कार्यं, तस्य वर्गो राशिः स्यात् ।

मूलोने दृष्टे तावदुदाहरणम् ।

चाले ! मरालकुलमुलानि सप्त तीरे विलासभरमन्थरगाण्यपश्यम् ।
कुर्वच्च केलिकलहं कलहंसयुग्मं शेपं जले वद मरालकुलप्रमाणम् । १ ।

 न्यासः। मूलगुणः ७/२ | दृष्टम् २। दृष्टस्यास्य २ गुणार्धकृत्था ४९/१६ । युक्तस्य ८१/१६ मूलम् ९/४ । गुणार्धेन ७/४ । युतं १६/४ वर्गीकृतं हंसकुलमानम् १६ ।

अथ मूलयुते दृष्टे चोदाहरणम् ।

स्वपदैर्नवाभिर्युक्तः स्याच्चत्वारिंशतधिकम् । शतद्वादशकं विद्वन्! कः स राशिर्निगद्यताम् । २ ।

न्यासः । मूलगुणः 8 दृश्यस् १२४० । गुणार्ध ९/२ मस्य कृत्या ८१/४ युक्तं जातम् ५०४१/४ । अस्य मूलं ७१/२ । गुणार्धेन ९/२ अत्र विहीनं ६२/२ वर्गिकृतं ३८४४/४ । छेदेन हृते जातो राशिः 8६१ ।

उदाहरणम् ।

यातं हंसकुलस्य मूलदशकं मेघागमे मानसं
प्रोड्डीय स्थलपझिनीवनमगादष्टांशकोऽम्भस्तदारत् ।
वाले ! वालमृणालशालिनि जले केलिकियालालसं
दृष्टुं हंसयुगत्रयं च सकलां यूथस्य संख्यां वद ॥ ३ ॥


+ ‘‘इष्टः प्रथमो राशिर्निंजार्धनिहतः स एवान्यः ।
अनयोः कृतिचुतिवियुती रूपयुते मूलदै स्याताम् ।।

  • चतुर्गुणेष्टमाद्यः स द्विघ्नोऽभीष्टसैगुणोऽपरो राशिः ।

अनयोःकृतियुतिवियुती रूपयुते मूलदे स्याताम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/३४&oldid=399238" इत्यस्माद् प्रतिप्राप्तम्