एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
लीलावती-
लॊलावती
इति मदीयमुपपन्नं भवति । *
इत्यनेनैव सदीयप्रकारणेन अत्र किलारभ्य राशिः स्या"-दित्यन्तमाचांर्योक्तं स्म्यगुपपन्नै भवतीत्यलं प्रसङ्गागतविचारेण ।
अथ त्रैराशिके करणसूत्रं वृतम् । प्रमाणमिच्छा च समानजाती आद्यन्तथोस्तत्फलमन्थजाति । मध्ये तदिच्छाहतमाद्यहृत् स्यादिच्छाफलं व्यस्तविधिर्विलोभे ॥ ७ ॥
उदाहरणम् ।
कुङ्कुमस्य सदलं पलद्वयं निष्कसप्तमलवैस्त्रिभिर्यदि । प्राप्यते सपदि में वणिग्वर ! ब्राहि निष्कनवकेन तन् कियन् ? ॥१॥
न्यासः उत्कविधिना लब्धानि कुङ्कुमपलानि ५२। कर्षाे २ ।
अपि च ।
प्रकृष्टकर्पूरलत्रिषष्ट्या चेल्लभ्यते निष्कचतुष्कयुक्तम् । शतं तदा द्वादशभिः सपादैः पलैः किमचदव सखे ! त्रिचिंत्य ॥ २ ॥
- उदाहरणम् --
बाले ! वालमरालबाणलवतो मूलं प्रिये चाष्टकं यातं मानसमेव रामनुणिता राशेः शरांशाः खलु । प्रोड्डीय स्थलपझिनीवनमथो दृष्टं संख्यां दिडि्मतं पाट्यां चेत् पटुता तदा दुततरं यूथस्य संख्यां वद ।।
न्यासः—मूगु ८, भा,दृ १०, अत्र दृश्य १० मूलगुणौ ८ पंचभक्तौ जातौ चास्तवौ मूलगुणकदृश्यौ मूगु ६,दृ २ भागः स एव! ततो यथोक्त्या कृते जातो राशिः २५ अयं पंचगुणो जातोऽभीष्टराशिः १२५ ।
अथान्यदुदाहरणम् ।
रामः सीतापहर्तार ममितबलिनं रावणं संजिघांसु- र्वाणान्यान् सन्दधे तद्वद्विगुणपदमितेनानलैः संहतेन । बाहूँश्र्विच्छेद तस्यास्त्रिलविशिषदलैस्तच्छिर श्वाथ दृष्टं भूपैस्तुल्यं तदाऽन्न प्रवद गणक ते सन्ति बाणाः कियन्तः ? ॥
न्यासः--मूगु ३ भा, दृश्यम् १६, दृश्यसूलगुणा १६, ३ वेतौ द्विगुणितौ जातौ वास्तवौ दृश्य ३२ मूलगुणौ ६ । अत्र भागः स एव। तत आचार्यरीत्या जातोराशिः२५ अयमर्वितः ग्रष्टुरभीप्सितो राशिः १२८।