एतत् पृष्ठम् परिष्कृतम् अस्ति

लीलावती- ८४ अथ स्थूलत्वनिरूपणार्थं सूत्रं सार्धवृत्तम् । चतुर्भुजस्यानियतौ हि कर्णौ कथं ततोऽस्मान्नियतं फलं स्यात् । प्रसाधितौ तच्छवणौ यदाध्यैः स्वकल्पितौ तावितरत्र न स्तः ।।२०। तेष्वेव बहुष्वपरौ च कर्णावनेकधा क्षेत्रफलं ततश्च।

चतुभुजे हि एकान्तरकोषाचाक्रम्यऽन्तः प्रवेश्यमानौ भुजौ तत्संसक स्वकर्णं सङ्कोचयतः । इतरौ तु बहिः प्रसरन्तौ स्वकर्ण वर्धयतः । अत उक्तं तेष्वेव बाहुष्वपरौ च कर्णविति ।

अत्रोपपत्तिः । अत्र चतुर्भुजस्यैकान्तरकोणवक्रम्यान्तः प्रवेषयमानेन तत्संस- ककर्णस्य संकोचः स्यात्तथा तदितरस्य च वृद्धिः स्यदिति स्पष्टमेवातृश्वतुर्भुजभुजेभ्यो- ऽनेकानि चतुर्भुजानि समुत्पद्यन्ते । अत्रोऽत्र कर्णयोर्लम्बयोर्वाऽनिर्देशे केवलभुजेभ्यः कतमस्य चतुर्भुजस्य फलं भवतीति तन्न तावज्ज्ञातुं न शक्यतेऽत उक्तं "चतुभुजस्या- निथतौ हि कर्णावित्यादि" ।

लम्बयोः कर्णयोर्वैकमनिर्दिश्यापरं कथम् । पृच्छत्यनियतत्वेऽपि नियतं चापि तत्फलम् । स प्रच्छकः पिशाचो वा वक्ता वा नितरां ततः। यो न वेत्ति चतुर्बाहुक्षेत्रस्थानियतां स्थितिंम् ।।

अन्न युक्तिः । अत्र "चतुर्भजल्यानियतौ हि कर्णा" वित्याद्याचार्यप्रतिपादित-. युक्त्यः केवलभुजेम्योऽनेकानेि चतुर्भुजानि जायन्त इति दर्शितमेवातो लम्बध्योः कर्णयोवकस्यानियतत्वे तत्फलस्याप्यनियतत्वं स्यादतो लम्वयोः कर्णयोर्चेत्याध्या- चार्योक्तं युकियुतमित्युपपन्नं सर्वम् ।

अथ च न केवलं कर्णौ लम्बौ वा चतुर्भुजस्य नियतत्वप्रतिपादकावपि तु तत्को- गावप्यतस्तदवगमकं सूत्रम्।

"लम्बयो: अवसोर्वापि कोपयोधैकमन्तरा । अपरं हि कथं पृच्छत्यहो सुनियतं फलम् ।।" इति ।

समचतुर्भजायतयोः फलानयने करणसूत्रं सार्धश्लोकद्वयम् । इष्ट श्रुतिस्तुल्यचतुर्भुजस्य कल्प्याऽथ तद्वर्गविर्जिता या ॥२१॥ चतुर्गुणा वाडुकृतिस्तदीयं मूलं द्वितीयश्रचणप्रमाणम् । अतुल्यकर्णभिहतिर्द्विसक्ता फलं स्फुटं तुल्यचभुजे स्यात् ॥२२ ॥ समश्रुतौ तुल्यचतुभुजे च तथाऽऽयते तद्भुजकोटिधातः | चतुर्युजेऽन्यत्र समानलस्वे लम्बेन निघ्नं कुमुखैक्यखण्डम् ॥२३॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/९६&oldid=399144" इत्यस्माद् प्रतिप्राप्तम्