पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१९८

पुटमेतत् सुपुष्टितम्
१९४
वाग्व्यवहारादर्शः

प्रयोगो .भारतस्थः श्रूयताम्-उच्चावचं बलं ज्ञात्वा मध्यस्थं चापि भारत ( वि ० २९|१० )। उच्चं राजपुत्रादि । अवचं चण्डालादि । मध्यस्थं वैश्यादीति नीलकण्ठः ।

 चिञ्चनौ निपातौ सर्वनाम्ना किमादिनैव सहचरिताः प्रयोगमवतरन्तीति भ्रमः। अन्यत्रापि दृश्येते--नास्यैतां रात्रिं कुमाराश्चन पयसो लभन्ते ( आप० श्रौ० १|४|११।२) । कुमाराश्चन कुमारा अपि । तदिदं भाषितं वाक्यं . तथाचन तथैव तत् ( भा० उ० ७८|४ ) उतापवक्ता हृदयाविधश्चित् ( वा० सं० ८|२३ )। चिदप्यर्थे ।

 यमिरुपस्मे पठितः संग्रहणे रश्मिप्रग्रहणे सारथ्योपगमेपि प्रचुरं प्रयुज्यते । स्वयं यच्छ हयान्ममेति ( भा० वि० ३६।२० ) । यच्छ संगृहाण । अत एव यन्तृशब्दः क्षत्तारमाचष्टे ।

 आवश्यकार्थे. कार्यतरशब्दप्रयोगो भारते, स ग्राह्योऽवहितम्--एवं गते किं कार्यं किं च-कार्यतरं नृपाः ( कर्णं० १०|९ )।

 अकालिकशब्दस्य विलम्बासहेर्थे प्रयोगो भारते--साम्प्रतं चैव यस्कायं तञ्च क्षिप्रमकालिकम् । क्रियतां साधु संचिन्त्य ( भा० विं० २७|७)।

 बलवत्सुष्टु इति पर्यायौ पठत्यमरः । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ( श० १|१ )। सुष्टु शिक्षितानाम् इत्याह । वसामेहापरां रात्रिं बलवान्मे परिश्रमः ( भा० वि० ५|६)। बलवान्मेऽध्वखेद इत्यर्थः।

 प्राचीनप्रतिचीनशब्दौ विशेषणे नपुंसकैकत्वेपि प्रयुज्येते : भिन्नलिङ्गवचनेपि विशेष्ये सति । तद्यथा प्राचीनं ग्रामादाम्राः ( भाष्ये )। प्राचीनं हिं धिष्ण्येभ्यो देवानां लोकाः प्रतिचीनं मनुष्याणाम् ( गो० ब्रा० उ० २|१७ )।

 वशशब्दः स्वतन्त्रा प्रकृतिरायत्तार्थको दृष्टः । कामक्रोधौ वशौ यस्य तं देवा ब्राह्मणं विदुः ( भा० बन० २०६|३५ ) । समासोत्तरपदं तु प्रसिध्यतितराम्— सर्वे परवशं दुःखं सर्वमात्मवशं सुखम् ( मनु०.४i१६० )।

 अवश इतिं परवशः परतन्त्र इत्यनेन समानार्थक: प्रचुरं प्रयुज्यते । कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणै: इति गीतासु ( ३|५ )। स्वतन्त्रेऽर्थेपि प्रयोगो भारते–विशन्ति चावशाः पार्थ योगाद् योगबलान्विताः (भा० शां० ३००|२४ )। नियते निश्चिते ध्रुवेर्थेपि मुद्राराक्षसे ( ६|६ )—किमस्य भवतो यथा सुहृद एव नाशोऽवशः

 आत्मशब्दः शरीरवचनोपीति न न विदितम् । आध्यात्मिकस्तापः । शारीर इत्यर्थः । श्रीरामायणे व्यक्तमारमशब्दः शरीरपरः प्रयुक्तः । तद्यथा—नृणां शतानि पञ्चाशद व्यायतानां महात्मनाम् ( १|६७|४) । महात्मनां हृष्टपुष्टशरीराणामिति