पृष्ठम्:वाग्व्यवहारादर्शः.djvu/२९

पुटमेतत् सुपुष्टितम्
२५
अपादानत्वाविवक्षा

ऽपरत्र नेति कथं युज्येत ? तस्माच्छिष्टदर्शनं जुषमाणैरस्माभिर्लभेर्गतिर्मुख्योऽर्थः प्राप्तिस्तु गौण इत्यवश्यंमभ्युपेयमन्यथा प्रयोगव्यवस्थितिर्न स्यात् ।

 क्वचिदभिव्यक्ततरमप्यपादानत्वमुपेक्ष्य कारकान्तरं विवक्षन्ति सन्तः। देवदत्तः प्राणान्मुमोच । देवदत्तः प्राणैर्मुमुचे । इह देवदत्तस्य प्राणैः समं वियोग इति नितान्तमुक्तानम् । वियोगश्चोभयनिष्ठ इति वियोक्तारं वियुज्यमानं चार्थ समं निश्रयते । इदं च नितरां विवक्षानिघ्नं तयोः कतरस्यावधिभावः कल्प्येतेति । यदि नाम प्राणा ध्रुवोऽर्थोऽवधिरिति वा कल्प्येरंस्तदा देवदत्तस्य वियोक्तृता वियोगे कर्तुताऽर्थादापद्यते । तेन प्राणशब्दात्पञ्चम्या भवितव्यम् । परं मुच्लृमोक्षण इत्ययं धातुः सकर्मकः । तत्प्रयोगे कर्माकाङ्क्षितं भवति । अपादानमुत्तराणि कारकाणि बाधन्त इति वंचनादपादानत्वं प्रबाध्य कर्मविवक्षायां प्राणानिति द्वितीया । अथ देवदत्तोऽवधिरित्यभ्युपेयते तदोक्तरीत्या तस्यापादानतां प्रबाध्य युञ्जतेः कर्मत्वेन तत्रोक्ते कर्मणि प्रथमा । प्राणैरिति चानुक्ते कर्तरि तृतीया सूपपन्नेति सर्वमवदातम् । मुचेः कर्मकर्तरि प्रयोगे तु प्राणादेरपादानत्वमविहतं तिष्ठति। यज्ज्ञात्वा मोक्ष्यसेऽशुभादिति गीतासु । मुच्यते सर्वपापेभ्य इति चानेकत्र पुराणे। मोक्ष्यसे स्वयमेव मुक्तो भविष्यसीत्यर्थः । कस्मादित्याकाङ्क्षयामाह--अशुभात् । अत्रापादानबाधप्रसङ्ग एव नास्तीति न दुरवधारं सुधीभिः। स प्राणान्मुमोच, तम्प्राणा मुमुचुरिति वाक्यद्वयमभिप्रायभेदेनादौ प्रयुयुजिरे विवेक्तारो वक्तारः, कालान्तरे तु समानार्थकमेतदिति साङ्कर्येणेत्यवकल्पयामः । अत्र शास्त्रपारावारपारीणाः प्रमाणमिति नातोऽतिरिक्तं संहामहे वक्तुम् ।

 विवक्षया कर्तृकर्मादिव्यवहारः सर्व इति प्रसाधितं पुरस्तान्निदर्शिताश्च ते ते प्रदेश यथाविवक्षमुपप्लवमानानां कारकाणाम् । तथापीदमत्रावधेयम् । न हि प्रयोक्त्रा निरवग्रहं यथा तथा.शक्यं विवक्षितुम् । नेह तस्य स्वश्छन्दः प्रवर्त्तते । विवक्षा हि कुलवधूरिव न लौकिकीं प्रयोगमर्यादामतिक्रामति । विवक्षायाश्च नियतत्वात्सत्यप्यपाये धनुषा विध्यतीति भवति, न धनुषो विध्यतीति । व्यधनक्रियायां धनुष्करणं न, अपि तु निःसरतां’ शराणामेव करणत्वमिति प्रथमवैयाकरणानामपि न न विदितम् । तथापि परमार्थे निरूपयंस्तथा च प्रयुञ्जानो लोके द्वेष्यतां यांति । कंसपात्र्यां भुङ्क्त इत्येव प्रयोगो न तु कंसपात्र्या इति । कंसपात्र्या उद्धृत्यैव त्वोदनं भुङ्क्ते । तेन तस्या अपादानता सिद्धा। तामविवक्षित्वाऽधिकरणतैवाभ्युपेयते। अपादानविवक्षया: पञ्चमीं प्रयुञ्जानों बाढं भवत्यपशब्दभाक् ।


१. अचिरोपसम्पन्नोऽचिरादेव गुरुमुपश्लिष्टो वैयाकरणॉ व्याकरणस्याध्येता प्रथमवैयाकरणः । अत्रार्थे प्रथमोऽचिरोपसम्पत्तौ (६।२।५६) इति स्वरसूत्रं मानम् ।