पृष्ठम्:वाग्व्यवहारादर्शः.djvu/८४

पुटमेतत् सुपुष्टितम्
८०
वाग्यव्यवहारादर्शः

च श्रीरामायणे कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः । तथा.वर्धकयश्चैवेति भेदेनोपदानं विशेषमिममुपस्तभ्नाति । स्थपतयो रथादिकर्तारः प्रधानवर्धकयः, वर्धकयस्तक्षाण इति च तत्र तिलकम् ।

 स्यान्मया शाम्बरीत्यमरं व्याचक्षाणः स्वामीं ‘इन्द्रजालं तु - कुसृतिः कुहकं कुहिका चेति’ कोषान्तरमुदाहरति - पर्यायान्तरसमुच्चिचीषया । मायाकारस्तु प्रातिहारिक इत्यत्र च मूले प्रातिहारिक ऐन्द्रजालिंक इत्याह । भिद्यन्ते च मायादयो मिथ इति च विवक्षामः । तत्रैष वाक्ये भेदेनोपादानमेव प्रमाणम् । तथा च भारत उद्योगपर्वणि प्रयोगः-न माया हीन्द्रजालं वा कुहिका वापि भीषणेति (१६०|११८)। तत्रार्जुनमिश्रष्टीकाकारो मायाऽऋतदर्शिनी कापि विद्या विश्वरूपादिदर्शनरूपा । इन्द्रजालं मन्त्रौषधादिभिश्चक्षुरादिप्रतिबन्धेनान्यथा प्रतिभानम् । कुहिका हस्तलाघवेनान्यथा दर्शनमिति ग्रन्थेन मायादीनामन्योन्यं भेदं ब्रवीति ।

 न्यासनिक्षेपयोः को विशेष इत्यपि जिज्ञासास्पदम् । वात्स्यायनीये कामसूत्रे. न्यासनिक्षेपयोर्वाक्ये सहप्रयोग एवार्थविशेषे मानम् । तथा च तत्र पाठः- प्रसृते च परिचये तस्या हस्ते न्यासं निक्षेपं च निदध्यादिति । न्यासाः स्थाप्याश्चिरकालग्राह्याः । निक्षेपोऽल्पकालग्राह्य इति च तत्र जगद्धरष्टीकाकारः ।

 सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समा इत्यमर एवां समानार्थत्वमातिष्ठते। तत्र नहि सर्वे बन्धुवः सगोत्र भवन्ति । सप्तमे पुरुषे सपिण्डताविनिवृत्तौ सगोत्रता संंवर्तते । बन्धुबान्धवयोस्तु नार्थमेदः कश्चित्, रूपभेद एव केवलःस्वार्थिकप्रत्ययकृतः । सम्बन्धिशब्दोपि बन्धुपर्यायो भवतीति व्यामुह्यति जनः । भिद्यन्ते च ज्ञातिसम्बन्धिबान्धवा इत्यत्र मनुसंहिता प्रमाणम् । एतं हि तत्र स्मर्यते— बालवृद्धातुरै वैद्यज्ञातिसम्बन्धिबान्धवैः (४|१७९ )। ‘तत्र ज्ञातयः पितृपक्षाः । सम्बन्धिनो जामातृश्यालकादयः । बान्धवा मातृपक्षा’ इति कुल्लूक:। भारतेपि शान्तिपर्वणि (१३८|३० ) ‘ये च सम्बन्धिबान्धवा' इति सम्बंन्धिबान्धवयोर्भेदेन ग्रहः ।

 इंदमिह विमृश्यमानं स्वदिष्यते विमर्शकेभ्यः पूगश्रेणिव्रातानां परस्परं किमन्तरमिति । पूगान्च्योऽग्रामणीपूर्वादिति (५|३|११२ ) सूत्रे नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पृगा इति काशिका । व्रातच्फ्ञोरस्त्रीयाम् (५|३|११३) इति सूत्रे च नानाजातीया . अनियतवृत्तयः उत्सेधजीविनः सङ्घा व्राता इति सैव । श्रेण्यादयः कृतादिभिः ( २|१|५९ ) इति सूत्रे भाष्यप्रदीपे एकशिल्पपण्याश्रयणेन जीविनां सङ्घः श्रेणिरिति कैयटः। एतदेव कारुः शिल्पी संहतैस्तैर्द्वयोः श्रेणिः सजातिभिरित्यमरवचनमनुरुन्धे । राज्याङ्गानि प्रकृतयः