पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८४ )


तास्तासां तटप्रान्तविहारिणीनां यस्य नृपस्याऽन्त पुरसुन्दरीणामन्त-पुरपुरन्ध्रीणां लावण्यंनिष्यन्दं लावण्यरसं लब्ध्वा प्राप्य पौयूषस्याऽमृतस्य संदर्शनं चिरकाला- नन्तरं प्रत्यक्षीकरणं तज्जन्यं सौख्यमानन्दं सुवादर्शनजन्यामोदसमानमानन्दमाप लेभे । देवैरमृतस्य गृहीतत्वात्त्वसमीपे तस्याऽभावात्साम्प्रतं तल्लावण्यामृतं दृष्ट्वा पूर्वमानन्दं प्रापेति भावः।स्त्रीणां लावण्यस्य पीयूषेण साम्यदर्शनादुपमालङ्कारः ।

भाषा

 देवो ने, जिसमें से अमृत जैसी सारभूत वस्तु निकाल ली है, ऐसे समुद्र ने अपने तट पर घूमने वाली उस राजा की रानियो के लावण्य रूप अमृत रस को प्राप्त कर अमृत को प्रत्यक्ष देखने का सौख्य पाया । अर्थात् अपनी गई हुई प्रिय वस्तु के फिर मिल जाने पर जैसा आनन्द होता है आनन्द को वसा समुद्र प्राप्त हुआ ।

जयैकरागी विजयोद्यमेषु दृष्ट्वा प्रयाणवधिमम्बुधिं यः ।
उत्कण्ठितोऽभूद्दशकण्ठशत्रु-सेतौ समस्यापरिपूरणाय ॥११३॥


अन्वयः

 जयैकरागो यः विजयोद्यमेषु अम्बुधिं प्रयाणावधि दृष्ट्वा दशकण्ठशत्रु सेतौ समस्यापरिपूरणाय उत्कण्ठितः अभूत् ।

व्याख्या

 जयस्य विजयस्यैबैको रागी प्रेमी विजयैकरतिर्यो नृपो विजयोद्यमेषु विजय- यात्रास्वम्बुधि समूद्र प्रयाणस्य गमनस्यऽवधि चरम सीमां दृष्ट्वा विज्ञायाऽग्रेगम‌- मस्य प्रतिरोधकं मत्या दशकण्ठस्य रावणस्य शत्रू रामस्तस्य सेतुस्तस्मिन् समस्या परिपूरणाय राम-निर्मितार्धनष्टसेतोः पुननिर्माणायोत्कण्थित . समुत्सुकोऽभूत् ।

भाषा

 केवल विजय हो प्राप्त वरने का प्रेमी वह राजा विजय-यात्राओ की चरम सीमा समुद्र को देखकर रावण के शत्रु राम जी के बनाये हुए टूटे पुल को पूरा बनाने के लिये उत्कण्ठित हुआ ।

दोर्दण्डदर्पाद्द्रविडप्रकाण्डं यः सम्मुखं धावितमेकवीरम् ।
अभाजनं वीररसस्य चक्रे बाणोत्करच्छिद्रपरम्पराभिः ॥११४॥
}}