पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१०९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८५ )


अन्वयः

 यः दोर्दण्डदर्पात् सम्मुखं धावितं द्रविडप्रकाण्डम् एकवीरं बाणोत्क रच्छिद्रपरम्पराभिः वीररसस्य अभाजनं चक्रे ।

व्याख्या

 यो राजा दोर्दण्डयोर्भुजदण्डयोर्वर्षादभिमानात्सम्मुखमभिमुखं धावितं येगेता- ssगत द्रविडेषु द्रविडदेशीयनृपेषु प्रकाण्ड श्रेष्ठमेकवीरमप्रतिमभट चोलदेशोश्वर बाणानामिषूणामुत्करस्समूहस्तै कृताभिच्छिद्रपरम्पराभि शरवर्षजनितच्छिद्रेवर रसस्योत्साहरूपजलस्याऽभाजनमनाश्रय चक्रे । जलपाने च्छिद्रसत्वाद्यथा जल तत्र न तिष्ठति तथैव तस्मिन् राज्ञि शरवर्षजनितच्छिद्रैर्वौररसस्याऽभावो जात इति भावः ।

भाषा

 जिस राजा ने, अपने भुजबल के अभियान के सामने दौड पडे हुए द्रविड देशीय योद्धओ में अप्रतिम वर चोल देश के राजा को बाणो की वर्षा से छिद्रमय बनाकर उसमें वीररस रूपी जल का अभाव कर दिया। अर्थात् उसका सब वीररस, छेद बाले बर्तन में से जैसे पानी चू कर वह बर्तन खाली हो जाता है वैसे उन छिद्र से बाहर चू गया और वह वीररसहीन हो गया । अर्थात् हार गया ।

पृथ्वीभुजङ्गः परिकम्पिताङ्गी यशःपटोल्लुण्ठनकेलिकारः ।
विधृत्य काञ्चीं भुजयोर्बलेन यश्चोलराज्यश्रियमाचकर्ष ॥११५॥

अन्वयः

 यः यशःपटोल्लुण्ठनकेलिकारः पृथ्वीभुजङ्गः भुजयोः बलेन काञ्चीं विधृत्य परिकम्पिताङ्गीं चोलराज्यश्रियम् आचकर्षे ।


व्याख्या

 य प्रसिद्धो यशश्चोलफीतर्त्रेय पद्धस्तस्यौत्कण्ठमुत्क्षेपणमपहरणमेध केलिस्ता करोतीति यश पटोल्हुण्ठनकेलिकारः पृथ्व्या पृथिव्या भुजङ्ग' पति कटुकश्च भुजयोर्बलेन काञ्चौ तनाम्नीं नगरीं रशनाञ्च विवृत्य जित्वा प्रगृह्य च परिकम्पितमङ्ग यस्या सा भयेत प्रेम्णा च कम्पयुक्तां चोलराजस्य श्रिय लक्ष्मीं ललनाश्चाऽऽचकर्षाऽऽकृष्टवान् । अत्र नृपराज्यलक्ष्मींध्यवहारेऽप्रकृतस्य