पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ८४ )

अन्वयः

 यस्य पुष्पेषोः इव अखर्वाः शराः सर्घेःदुष्परिहराः यस्य ऊर्जितज्या निष्ठ्यूतनितान्तनिष्ठुरररवप्राप्ताग्रवादः भुजः युद्धेषु राज्ञाम् अप्रतिभानम् एव विदधे, तस्य विक्रामतः देवस्य अस्त्रकौशलविधौ किं ब्रूमः ।

व्याख्या

 यस्य राज्ञ पुष्पेयो कुसुमबाणस्य कामस्य ईवाऽखर्वा प्रबला शरा बाणास्स ” र्वर्वीरैर्दुश्परिहरा दुखेन परिहर्तुं शक्या कृच्छेण प्रतिरोपनीया निवारणीया इत्यर्थ । यस्योर्जितया बलवत्या ज्यया मौर्व्या निष्ठयूतो निस्सृतो नितान्त मत्यन्त निष्ठुर कठोरो रव शब्दस्तेन प्राप्तो लब्धोऽप्रवादो युद्धव्हानाय प्रथम ध्वानो यस्य स भुजो युद्धेषु रणेषु राज्ञा नृपाणप्रतिभान प्रतिभाराहित्य विवेकशून्यत्व मूकत्व वा किं कर्तव्यताविमूढत्वमित्यर्थ । विदधे चक्रे तस्य विक्रामत पराक्रमशालिनो देवस्याऽऽहवमल्लदेवस्य, ‘नामैकदेशप्रहणे नामग्रहणम् । ' अस्त्राणा कौशलविधौ सञ्चालनप्रावीण्यविधौ शस्त्रास्त्रविद्यानैपुण्यविषये कि द्युम किमपि कथनीय नास्ति । श्रवणगोचरत्वमेवेत्यर्थं । अत्र शार्दूलविक्रीडितछन्द’ । सूर्याश्वैर्मसजास्ततस्सततगाः शार्दूलविक्रीडितमिति’ ।

भाषा

 उस पराक्रमी राजा आहवमल्लदेव की अस्त्र चलान की प्रवीणता के सम्बन्ध मे विशेष क्या कहा जाय जिसके कामदेव के समान प्रबल बाणों को कोई भी टाल नही सकता था और जिसरी शक्तियुक्त मौर्वी के अत्यन्त कठोर शब्दो द्वारा सर्व प्रथम ललकार ने वाली भुजा, युद्ध में शत्रुओ को किं कर्तव्यता विमूढ अतएव मूक बना देती थी ।

 इति श्री त्रिभुवनमल्लदेव विद्यापतिकाश्मीरकभट्ट श्री बिल्हणविरचिते विक्रमाङ्कदेवचरिते महाकाव्य प्रथम रसर्ग ।

नेत्राञ्जभ्रयुगाङ्कविक्रमशरत्कालेऽप्र दामोदरात्
भारद्वाजयुधोत्तमात्समुदितः श्रीविश्वनाथः सुधीः ।
चक्रे रामकुबेरपण्डितवरात्सप्राप्तसाहायकः
सर्गेऽस्मिन्प्रथमे रमाकरुण्या टीकाद्वयं निर्मलम् ॥

ॐ शान्ति शान्ति शान्ति