पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/११५

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९१ )

अन्वयः

 यस्मिन् पुरन्ध्रिगण्डस्थलकान्तिसम्पदा कातररश्मिमण्डलः क्षपाकरः विकीर्णसंमार्जनभस्मरेणुना मुकुरेण तुल्यतां बिभर्ति ।

व्याख्या

 यस्मिन्नगरे पुरन्ध्रीणा पतिव्रतास्स्त्रीण 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रताइत्यमरः गण्डस्थलस्य कपोलस्थलस्य कान्तीना रुचीना सपदा' । समूहेन कातर हतप्रभ रश्मिमण्डल किरणजाल यस्य सः ‘किरणप्रग्रहौ रश्मी-

त्यमर। क्षपाकरश्चन्द्रः 'क्षपाकरः' इत्यमरः । विकीर्ण. पतितः

तमार्जनस्य गृहसमार्जनस्य भस्मरणुर्धूलिर्यस्मिन्स तेन मुकुरेण दर्पणेन ‘दर्पणे मुकुरादर्शो' इत्यमरः । सह तुल्यतां समानता बिभर्ति धारयति । उपमा- लङ्कारः ।

भाषा

 जिस नगर में सती स्त्रियो के कपोलस्थल को कान्ति के आधिक्य से हतप्रभ किरण समूह वाला चन्द्रमा, झाडू देने में उडी हुई धूली के कणो से आच्छादित ऐने के समान दिखाई देता था ।

विलासदोलायितदन्तपत्रयोः क्षपासु यत्रेन्दुरलक्ष्यमण्डलः ।
प्रविश्य संक्रान्तिमिषेण योषितां कपोलयोः कान्तिजलं विलुम्पति ॥४॥

अन्वयः

 यत्र क्षपासु संक्रान्तिमिषेण प्रविश्य विलासदोलायितदन्तपत्रयोः योषि तां कपोलयोः अलक्ष्यमण्डलः इन्दुः कान्तिजल विलुम्पति ।

व्याख्या

 {{bold|यत्र पुरे क्षपासु रात्रिषु विलासे स्वैरक्रीडायां दोलायिते वीलावदाचरिते पुर पश्चाद्गतगते दन्तपत्रे ताटङ्की ययोस्तयोर्योषिता नारीणा 'स्त्रीयोषिदबला योषा नारी सिमन्तिनी वधू' इत्यमर । कपोलयोर्गण्डस्थलपोरलक्ष्यमवितात मण्डल बिम्ब यस्य स इन्दुश्चन्द्र सक्रान्तिमिषेण प्रतिबिम्बव्याजेन प्रविश्य गत्वा

कान्तिजलं लावण्यामृत विलृम्पति पिबति । चन्द्रतोऽधिककान्तिमत्वात्कपोलयो

पतितस्य चन्द्रप्रतिबिम्बस्य व्याजेनेन्दु कामिनीना स्वकान्तिविवृद्धयर्थ लावण्या-