पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति

( ९८ )


अन्वयः

 येन नभश्वरीणां पिपासापरितापशान्तये समुच्छलन्मौक्तिकान्तिवां- रिभिः सुरसद्ममूर्धगैः सुवर्णकुम्भैः प्रपा निर्मिता इव (प्रतीयते )।

व्याख्या

 येन कल्याणपुरेण नभश्चरीणामाकाशविहरणशीलानामप्सरसां दैवाङ्गनानां वा पातुमिच्छा पिपासा तृषा तस्याः परितापः सन्तापस्तस्य शान्तये दूरीकरणाय समुच्छलन्त्य ऊर्ध्वं प्रसारिण्यो मौक्तिकानां मुक्तानां कान्तप इव वारीणि जलानि स्वच्छत्वाद्येषु तैः सुराणां देवाना सद्यानि मन्दिराणि तेषां मूर्ध्नि गच्छन्तीति सुरसद्ममूर्धाङ्गास्तैर्देवमन्दिरशिरोग्रधार्यमाणं सुवर्णकुम्भैः स्वर्गनिर्मितघटैः कुम्भो घटेऽत्र मूर्धाशौ टिभौ तु शिशुबालिशौ इत्यमरः । प्रपा पानीयशालिका प्रपा पानीपशालिकेत्यमरः। निर्मितेय सम्पादितेव प्रतीयते । उत्प्रेक्षालङ्कारोऽति- शयोक्तिश्च ।

भाषा

 जिस नगर ने आकाश में उडने वाली अप्सरा या देवाङ्गनाओ की प्यास

के

कष्ट को दूर करने के लिये देवताओं के मन्दिरों के ऊपर रखे हुए, ऊपर फैलने वाली मोतियो की कान्ति के सदृश कान्ति वाले जल से युक्त, सोने के घडो से मानो पौसरा बैठाया था ।

जगत्तूयीकार्मणकर्मणि क्षमं निरीक्ष्य लीलायितमेणचक्षुषाम् ।
स्मरेण यत्र स्मरता पराभवं भवाय भूयः परिबोध्यते धनुः ॥१४॥

अन्वयः

 यत्र पराभयं स्मरता स्मरेण एणचक्षुषां लीलायितं जगत्तूयीकार्मण कर्मणि क्षमं निरीक्ष्य भवाय भूयः धनुः परियोध्यते ।

व्याख्या

 यत्र पुरे शिवात्पराभवं पराजयं स्मरता स्मरेण कामेन 'कामः पञ्चशरः स्मर' इत्यमरः । एणानां मृगाना चक्षुंषीव चक्षुंषि नेत्राणि यासां तासां 'गोकर्णं पृषतैणर्श्यहिताक्षमरो मृगाः' इत्यमर । लीलायितं विभ्रमं 'कार्मणमोषधि प्रयोगेण वषीकरणकर्म, जगतां त्रयी जगतूपी तस्याः कार्मणं वशीकरणकर्मं तस्य