पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२४

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०० )

निराकृते यत्र रुपां समुद्गमे भुजङ्गसौभाग्यगुणेन सुभ्रुवाम् । वनान्तपुंस्कोकिलपञ्चमोर्मयो भवन्ति मानज्वरशेषभेषजम् ।।१६।।

अन्ययः

यत्र सुभ्रुवां रुपां समुद्गमे भुजङ्गसौभाग्यगुणेन निराकृते (सति) वनान्तपुंस्कोकिलपञ्चमोर्मयः मानज्वरशेषभेषजं भवन्ति ।

यत्र पुरे सुभ्रुवां सुन्दरभृकुटिंयुक्तानामङ्गनानां रूषां कोपनां ‘कोपक्रोधा मर्षरोषप्रतिघा रुट्क्रुधी स्त्रिय' इत्यमरः । समुद्गमे उत्पत्तौ भुजङ्गा विटजनाः। कामुका वा तेषां यत्सौभाग्यं स्त्रीप्रसादानुकूलकलाप्रावीण्यं तस्य गुणेन प्रभावै- णोत्कर्षेण वा निराकृते रीकृते सति वनान्तस्यारण्यमध्यस्य पुंस्कोकिलाः पिकास्तेषां पञ्चमोर्मयः पञ्चमस्वरतरङ्गt, (कोकिलाः पञ्चमस्वर एव शब्दायन्त इति लोकप्रसिद्धिः) । मानज्वरस्य प्रणयकोपरूपज्वरस्य शेषोऽवशिष्टाशस्तस्य भेषजं तच्छामकौषधिः ‘भेषजौषधभैषज्यान्यगदोजायुरिंत्यपि' इत्यमरः । भवन्ति जायन्ते । रूपकालङ्कारः। 'रूपकं रूपितारोपद्विषमे निरपन्हवे' ।

जिस नगरी में अच्छी भौवो वाली नारियो में प्रणयकोप उत्पन्न होने पर कामुको या विटो द्वारा अपनी प्रणयकोप को दूर करने की चातुरी से उनका कोप शान्त होने पर, वन मे बोलने वाली कोयल के पञ्चम स्वर की लहरें उनके अवशिष्ट मान रूप ज्वर को मिटाने के लिये औषध का काम करती है । अर्थात् कोयल के शब्दो को सुनकर उनका सम्पूर्ण प्रणयकोष दूर हो जाता था ।

प्रविष्य यद्वेश्मसु रोहिणीपतिर्गुणं महान्तं लभते न संशयः। यदेष राहोरुपयात्यलक्ष्यतां पुरन्धिवक्त्रेन्दुसहस्रमध्यगः ॥१७

अन्वयः

रोहिणीपतिः यद्वेश्मसु प्रविश्य महान्तं गुणं लभते, न संशयः । यत् एषः पुरन्ध्रिवक्त्रेन्दुसहस्रमध्यगः सन् राहोः अलक्ष्यताम् उपयाति ।