पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०२ ) भाषा जिस नगर के प्रासादो पर के झण्डो की रेशम की । पट्टियो में लग हुए , मोतियो को कान्ति रूपी जल के झरनों से मालूम होता था कि पट्टियों के आकाश में सतत हिलते रहने से उनकी झडप से खीचे गए हुए आकाश गंगा के जल को मानो वे पट्टियाँ छिडक रही थी । अविस्मृतत्र्यम्बकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषाम् । बिलासपीयूषनिधानकुम्भयोर्नं यत्र पार्श्व कुचयोर्विमुञ्चति ॥१a ॥ अन्वयः यत्र अविस्मृतत्र्यम्यकनेत्रपावकः स्मरः स्मितेन्दीवरदीर्घचक्षुषां विलास पीयूषनिधानकुम्भयोः कुचयोः पार्श्वं न मुञ्चति । क्यस्य यत्र पुरे न विस्मृतस्त्र्यम्बकस्य शिवस्य नेत्रपावको नयनाग्निदाहो येन स. स्मर कामदेवः स्मितानि विकसितानीन्दीवराणि कमलानीव चक्षुषि नेत्राणि यासां तासामङ्गलाना विलासरूप यत्पीयूषममृत तस्य निधान निक्षेपण सयोस्तो कुम्भौ तयोस्तदूपयोः कुचयोः स्तनयोः पाश्वं सामीप्यं न मुञ्चति न परित्यजति । दाहजन्यमृत्युनिवारक, भेषजस्पामुतस्य स्तनयोः स्थितत्वात्तत्रैव नियतस्थितिं समाचकाड़क्ष काम इति भाव"। काव्यलिङ्गमलङ्कारःतेन उत्प्रेक्षा व्यज्यते । जिस नगर में, महादेव ये तृतीय नेत्र की अग्नि के दाह को न भूलने वाला कामदेव खिले हुए कमल के समान बडे २ नेत्र वाली नारियो के, विलास रूपी अमृत का खजाना स्वरूप दो घडो से अभिन्न स्तनो से दूर नही होता है । स्मरस्य यत्राद्भुतमस्त्रकौशलं तथाह्यसौ चारुदृशां विलोचनैः । उपागतैरुत्पलपत्रमित्रतां शिलाकठोराणि मनांसि विध्यति ॥२०॥ 5A यत्र स्मरस्य अस्त्रकौशलम् अद्भुतम्, तथाहि असौ उत्पलपत्रमित्रताम् उपागतै- चारुदृशr विलोचनैः शिलाकठोराणि मनांसि विध्यति ।