पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०४ ) भाषा जहां कामदेव की शय्या रचना, रति स्वरूप रत्नसम्पति होने से समुद्रतट, रतिस्वरूप विजली से युक्त होने से मेघमण्डली, और रति स्वरूप विलास युक्त ताराओ की माला होने से आकाश स्थली शोभित है । त्यजन्ति हंसाः सरसीगुणैः स्थितिं न यत्र वर्षास्वपि हर्षगद्गदाः । अलङ्घनीयस्य निकाममुन्नतेर्दिशन्ति वप्रस्य यशस्तु दुर्जनाः ॥२२॥ अन्वयः यत्र हर्षगद्गदाः हंसाः सरसीगुणैः वर्षासु अपि स्थितिं न त्यजन्ति । दुर्जनाः तु अलङ्घनीयस्य वप्रस्य निकामं उन्नतेः यशः दिशन्ति ।। व्याख्या यत्र पुरे हर्षेणाऽऽनन्देन गद्गदा. पुलकिता हसा सरसीनां कासाराणां ‘पद्माकरस्तडागोऽस्त्री कासर सरसी सरः' इत्यमरः । गुणेर्नैमल्यदिगुणैर्वर्षास्वपि वर्षर्तावयि स्थिति निवासं न त्यजन्ति न मुञ्चन्ति । वर्षाकाले मानसं यान्ति हंसा इति नियमान्मानसं न यान्तीति भावः । दुजेंना अलङघनीयस्य पार कर्तुमयोग्यस्य वप्रस्य प्राकारस्य निकाममत्पन्तमुन्नतेरुच्छ्रयस्य यशः कीर्ति दिशन्ति कुर्वन्त्यारोप यन्तीत्यर्थः। दुर्जनाः परनिन्दाकुशलाः सरसीगुणान्विहाय वर्षासु हंसानां मानसाड- गमने प्रकाराणामौन्नत्यमेव कारणमुद्घोषयन्तीति भावः । अत्राऽतिशयोक्त्य- लङ्कारः । भाषा ' == जहां आनन्द मग्न हंसगण वर्षाऋतु में भी तलावो का पानी गंदा न होने

से, अन्य स्थान के हसो के सदृश मानससरोवर को न जाकर वही रहते थे । दुर्जन लोग जो कभी किसी के गुण की प्रशसा नहीं करते थे हंसो के अन्यत्र न जाने में इस नगर की चहार दिवारी को उचाई का यश गाते थे । अर्थात् उस नगरी के अत्यन्त रमणीय सरोवर की प्रशसा न पाकर वप्र की ऊंचाई को प्रशसा करते थे । निशासु यत्रोन्नतसौधसङ्गतिं विगाहमानस्य विधोः कुरङ्गकः । वन्तसदूर्वाङकुरमेणचक्षुषां ग्रहीतुमाकाङ्क्षति वक्रकन्धरः ॥२३॥