पृष्ठम्:विक्रमाङ्कदेवचरितम् (भागः १).pdf/१२९

एतत् पृष्ठम् परिष्कृतम् अस्ति

( १०५ ) अन्वयः यन्न निशासु उन्नतसौधसंगतिं विगाहमानस्य विधोः कुरङ्गकः वक्रकन्धरः • (सन्) एणचक्षुषा वतसदुर्वाङ्कुरं ग्रहीतुम् आकाङ्क्षति । व्याख्या यत्र पुरे निशासु रात्रिषु उन्नता अत्युच्चा प्रासाद राजसदनानि तेषा सङ्गतिं समागम विगाहमानस्य विदधतो विधोश्चन्द्रस्य कुरङ्गक कलङ्करूपमृगो वक्रा वक्रीकृता कन्धरा ग्रीरा येन स एवम्भूतस्सन् एणचक्षुषा मृगनयनामङ्गानाना वतस आभूषणरूपष्चासौ दूर्वाङ्कुरश्च त 'वतस अवतस । "वष्टि भागुरिरल्लो- पमवाप्योरुपसर्गयो । आप चैव हलन्ताना यथा वाचा निश दिशा” इति । कर्णा वतसहप दूर्वाङ्कुर प्रहीतु भक्षणार्थं स्वीकर्तुमाकाड़क्षत्यभिलषति । अत्रातिशयो वत्यलङ्कार । भाषा जहाँ रात्रिया में, चन्द्र के, बहुत ऊँचे राजसदनो के समीप आने से, चन्द्रमा में का मृग, टेढी गर्दन करके, मृगनयनी नारियो के कानो पर आभूषण के रूप में खोसे हुवे दूब के अकुर को खाने की इच्छा करता था । अवागुरं नेत्रकुरङ्गबन्धनं निरक्षरं पञ्चशरस्य शासनम् । गृहे गृहे यत्र विचित्रमन्वहं वितन्वते नूत्तमधीरलोचनाः |२४| अन्वयः यत्र अधीरलोचनाः गृहे गृहे अन्यहम् अवागुरं नेत्रकुरङ्गबन्धनं पञ्चशरस्य निरक्षरं शासनं विचित्रं नृत्तं वितन्वते । उद्य यत्र पुरेऽधीरे चञ्चले लोचने नेत्रे यासा ताश्चञ्चलनयना कामिन्यो गृहै गृहे प्रतिगृहमन्वह प्रतिदिन नास्ति वागुरा मृगबन्धनं यस्मिन्तदवागुर नेत्राण्येव युवकजननयनान्मेव कुरङ्गा मृगास्तेषा बन्धन बन्धनस्वरूप पञ्चशरस्य कामास्य निरक्षरमक्षरोच्चारणरहित शासनमाज्ञास्वरूप विचित्रमाश्चर्यकर नृत्तं नृत्य ‘नुत्त ताललयाभयम्’ वितन्वते कुर्वन्ति । तासां नृत्य दृष्ट्वा सर्वे यूवान काम मोहिता भवतीति भाव । अधिकारूढवैशिष्ट्य रूपवमलङ्कार।